7-4-11 ऋच्छत्यॄताम् लिटि गुणः
index: 7.4.11 sutra: ऋच्छत्यॄताम्
ऋच्छतेरङ्गस्य, ऋ इत्येतस्य, ॠकारान्तानां च लिटि परतो गुणो भवति। ऋच्छ आनर्च्छ, आनर्च्छतुः, आनर्च्छुः। ऋ आरतुः, आरुः। ॠकारान्तानाम् निचकरतुः, निचकरुः। निजगरतुः, निजगरुः। ऋच्छेरलघूपधत्वादप्राप्तो गुणो विधीयते, ॠतां तु प्रतिषिद्धः। वृद्धिविषये तु पूर्वविप्रतिषेधेन वृद्धिरेव इष्यते। निचकार। निजगार।
index: 7.4.11 sutra: ऋच्छत्यॄताम्
तौदादिकऋच्छेर्ऋधातोर्ॠतां च गुणः स्याल्लिटि । णलि प्राग्वदुपधावृद्धिः । आर । आरतुः । आरुः ।
index: 7.4.11 sutra: ऋच्छत्यॄताम्
तौदादिक ऋच्छेर्ऋधातोर्ॠतां च गुणो लिटि। पपरतुः। पपरुः॥
index: 7.4.11 sutra: ऋच्छत्यॄताम्
ऋच्छत्यॄताम् - ननु ऋ अतुस् इति स्थिते द्वित्वे उदरत्त्वे रपरत्वे हलादिशेषेअत आदे॑रिति दीर्घे आ ऋ अतुस् इति स्थितेअसंयोगा॑दिति कित्त्वादुत्तरखण्डस्य गुणाऽभावे यणं बाधित्वा परत्वाद्गुणे अरतुरिति स्यादित्यतस्तत्र गुणविधानमाह — ऋच्छत्यृताम् ।दयतेर्दिगि लिटी॑त्यतो लिटीति,॒ ऋतश्च संयोगादेर्गुण॑ इत्यतो गुण इति चानुवर्तते । ऋच्छति ऋ ऋत् एषां द्वन्द्वाद्बहुवचनम् । बहुवचनादेव ऋकारप्रश्लेषो गम्यते । प्रश्लिष्टेन च ऋकारेण ऋधातुरेव गृह्रते, ऋवर्णान्तधातुग्रहणेऋतश्च संयोगादेर्गुणः॑ इत्यस्य वैयथ्र्यात् ।ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु॑ इति तौदादिकस्यऋच्छती॑त श्तिपा निर्देशः । भौवादिकस्य धातोस्तु ऋग्रहणेनैव सिद्धेः । तदाह — तौदादिकस्येत्यादिना । किदर्थमपीदं सूत्रं परतवादकित्यपि भवति । णलि प्राग्वदिति । 'ह्व कौटिल्ये' इत्यत्र उक्त्या रीत्या कित्सु चरितार्थोऽप्ययं गुणःअचो ञ्णिती॑ति वृद्ध्यपेक्षया परत्वाण्णल्यपि भवति, ततो रपरत्वे उपधावृद्धिरित्यर्थः । आरेति । ऋधातोर्लिटि तिपो णलि द्वित्वे उरदत्त्वे हलादिशेषेअत आदे॑रिति दीर्घे उत्तरखण्डस्य वृद्धौ रपरत्वे सवर्णदीर्घ इति भावः । आरतुरिति । पूर्ववद्द्वित्वादौ आ ऋ अतुसिति स्थिते कित्त्वाद्गुणनिषेधे प्राप्तेऋच्छत्यृता॑मिति गुणे रपरत्वे सवर्णदीर्घ इति भावः । आरुरित्यप्येवम् ।
index: 7.4.11 sutra: ऋच्छत्यॄताम्
ठृच्छ गत्यादिषुऽ । अर्तेरप्यत्र प्रश्लेषः, यदाह - ऋ इत्येतस्येति । एतच्च बहुवचननिद्देशादवसीयते । ऋवर्णस्य ग्रहणं तु न भवति; ऋकारान्तानां पऋतग्ग्रहणात् । किमर्थ पुनरतिः प्रश्लिष्यते ? आरतुः, आरुरिति यथा स्यात् । अन्यथा ऋ अतुस्, ऋ उस् इति स्थिते द्विर्वचनम्, उरदत्वं च बाधित्वा वार्णत्वात्सवर्णदीर्घत्वम्; तत्र यद्यभ्यासग्रहणेन ग्रहणम्, उरदत्वं हलादिशेषः, ठत आदेःऽ इति दीर्घत्वम्, ठातो लोप इटि चऽ, - अतुरुरिति वचनमेव श्रूयेत । अथ धातुग्रहणेन ग्रहणम् ? तत ऋकारान्तत्वाद् गुणे कृते अरतुः, अरुरिति रूपं स्यात् । तथा क्वसौ गुणे कृते अरित्यस्य द्विर्वचनम्, हलादिशेषः, ठत आदेःऽ, सवर्णदीर्घत्वम्,'वस्वेकाजाद्घसाम्' इतीट् - आरिवानिति भवति । ऋच्छतेरलघूपधत्वाद् गुण इति । अन्तरङ्गत्वात्'छे च' इति तुकि कृते'संयोगे गुरु' इति ऋकारो गुरुर्भवति, न च लघुः, नाप्युपधा । आञ्तां त्विति । सूत्रवदत्राप्यर्तिप्रश्लेषः । वृद्धिविषये त्विति । अस्तु वा परत्वाद् गुणः, ठत उपधायाःऽ इति सिद्धमिति परिहारान्तरम् ॥