7-3-10 उत्तरपदस्य वृद्धिः अचः ञ्णिति तद्धितेषु आदेः
index: 7.3.10 sutra: उत्तरपदस्य
अङ्गस्य उत्तरपदस्य
index: 7.3.10 sutra: उत्तरपदस्य
अधिकारोऽयम् । इतः परम् 'यथातथयथापुरयोः पर्यायेण' 7.3.31 इति यावत् यत् किमपि उक्तमस्ति तत् उत्तरपदस्यैव भवति ।
index: 7.3.10 sutra: उत्तरपदस्य
This is an अधिकार, which spans till 'यथातथयथापुरयोः पर्यायेण' 7.3.31. Whatever is being told in this अधिकार happens only to an उत्तरपद.
index: 7.3.10 sutra: उत्तरपदस्य
उत्तरपदस्य इत्ययमधिकारः हनस्तोऽचिण्णलोः 7.3.32 इति प्रागेतस्मात्। मदित ऊर्ध्वमनुक्रमिष्यामः उत्तरपदस्य इत्येवं तद् वेदितव्यम्।
index: 7.3.10 sutra: उत्तरपदस्य
भारद्वाजदेशवाचिभ्यामाभ्यां छः । कृकणीयम् । पर्णीयम् । भारद्वाजे किम् । कार्कणम् । पार्णम् ॥
index: 7.3.10 sutra: उत्तरपदस्य
सप्तमाध्यायस्य तृतीयपादस्य प्रारम्भिकानि 31 सूत्राणि 'तद्धितेषु आदिवृद्धिः कुत्र भवति' अस्मिन् विषये सिद्धान्तानि वदन्ति । अस्मिन्नेव प्रकरणे 'उत्तरपदाधिकारः' इति अयमधिकारः विद्यते । अस्मात् सूत्रात् आरभ्य प्रकरणस्य अन्तपर्यन्तम् (इत्युक्ते यथातथयथापुरयोः पर्यायेण 7.3.31 इति यावत्) यत् किमपि उच्यते, तत् समस्तपदस्य उत्तरपदस्यैव भवति, न अन्यत्र - इति अस्य अधिकारस्य अर्थः ।
index: 7.3.10 sutra: उत्तरपदस्य
उत्तरपदस्य - नञः शुचीआरः । आदिवृद्धिप्रकरणे उत्तरपदस्य पूर्वस्य तु वेत्यनुवृत्ताविदं सूत्रम् । आशौचम् - आशौचमिति । अशुचेरागतमित्यर्थः । 'तत आगत' इत्यणि पूर्वपदस्यादिवृद्धिविकल्पः । उक्त्रपदस्य तु नित्या आदिवृद्धिः । एवमग्रेऽपि अक्षेत्रज्ञात् अकुशलात् अनिपुणाच्च आगतमित्यर्थो बोध्यः । आनैआर्यमित्यत्र तु ब्राआहृणादित्वाद्भावे ष्यञ् ।
index: 7.3.10 sutra: उत्तरपदस्य
उतरत्र ठचामादेःऽ इत्यनुवृतेरुतरपदस्याचामादेर्वृद्धिर्वेदितव्या । ननु चठवयवादृतोःऽ इत्यादौ ठवयवाद्ऽ इत्यादिका पञ्चमी, तत्रान्तरेणाप्युतरपदग्रहणमुतरपदस्यैव भविष्यति ? अत आह - यत्रेति । आदिपदेन'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' , अनुशतिकादीनां चऽ,'देवताद्वन्द्वे च' - इत्येतेषां ग्रहणम् । एषु योगेषु पञ्चमीनिर्देशाभावादसत्यस्मिन्नधिकारेऽङ्गस्याचामादेरचो वृद्धिः स्यात्, नोतरपदस्य । वचनं तु नियमार्थं स्यात् - ज एव प्रोष्ठपदानाम्, नान्यत्र । प्रोष्ठपदानामेव वा जे इति । वचनसामर्थ्याद्वा पूर्वपदस्यैवानाद्यचो वृद्धिविधानार्थं स्यात् । तस्मादेतदर्थमेवायमधिकारः कर्तव्यः । किमिदानीं पञ्चमीनिर्देशेष्वस्यानुयोग एव ? नेत्याह - पञ्चमीनिर्देशेष्वपीति । वृद्धेश्च व्यपदेशार्थमिति । उतरपदाधिकारे विहिता या वृद्धिरिति व्यपदेशो यथा स्यादित्येवमर्थमित्यर्थः । क्व पुनरेवंविधेन व्यपदेशेन प्रयोजनम् ? इत्यत आह - उतरपदवृद्धौ सर्वं चेत्यत्रेति । सर्वभासः, सर्वकार इत्यादौ मा भूदित्येवमर्थं तत्रैवमाश्रितम् ॥