7-3-31 यथातथयथापुरयोः पर्यायेण वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य नञः
index: 7.3.31 sutra: यथातथयथापुरयोः पर्यायेण
यथातथ यथापुर इत्येतयोः नञः उत्तरयोः पर्यायेण अचमादेरचः वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः। आयथातथ्यम्, अयाथातथ्यम्। आयथापुर्यमयाथापुर्यम्। अयथातथ अय्थापुर इति ब्राह्मणादिषु नञ्समासौ एतौ द्रष्टव्यौ। सूत्रे यथातथायथापुरशब्दौ तु यथासादृश्ये 2.1.7 इति अव्ययीभावसमासौ। तथा नपुंसकाश्रयं ह्रस्वत्वं कृतम्। भास्ये तु यथादर्शित अयथातथाभावः इति तथा सुप्सुपेति समासो लक्ष्यते।
index: 7.3.31 sutra: यथातथयथापुरयोः पर्यायेण
नञः परयोरेतयोः पूर्वेत्तरपदयोः पर्यायेणादेरचो वृद्धिर्ञिदादौ । अयथातथाभाव आयथातथ्यम् । अयाथातथ्यम् । आयथापुर्यम् । अयाथापुर्यम् । आ पादसमाप्तेर्भावकर्माधिकारः ।<!चतुर्वर्णादीनां स्वार्थ उपसंख्यानम् !> (वार्तिकम्) ॥ चत्वारो वर्णाश्चातुर्वर्ण्यम् । चातुराश्रम्यम् । त्रैस्वर्यम् । षाङ्गुण्यम् । सैन्यम् । सांनिध्यम् । सामीप्यम् । औपम्यम् । त्रैलोक्यमित्यादि । सर्वे वेदाः सर्ववेदास्तानधीते सर्ववेदः ।<!सर्वादेः - इति लुक् !> (वार्तिकम्) । स एव सार्ववैद्यः ॥ (गणसूत्रम् -) चतुर्वेदस्योभयपदवृद्धिश्च ॥ चतुरो वेदानधीते चतुर्वेदः । स एव चातुर्वैद्यः । चतुर्विद्यस्येति पाठान्तरम् । चतुर्विद्य एव चातुर्वैद्यः ॥
index: 7.3.31 sutra: यथातथयथापुरयोः पर्यायेण
यथातथयथापुरयोः पर्यायेण - तयोः ष्यञि आदिवृद्धौ विशेषमाह — यथातथायथापुरयोः । आदिवृद्धिप्रकरणे उत्तरपदस्य पूर्वस्य चेत्यधिकारे इदं सूत्रम् ।नञः शुची॑त्यतो नञ इत्यनुवर्तते । तदाह — नञः परयोरेतयोरिति । यथातथा यथापुर इत्यनयोरित्यर्थः । पर्यायेणेति । कदाचित्पूर्वपदस्य, कदाचिदुत्तरपदस्येत्यर्थः । आयथातथ्यमिति । यथातथेति निपातनात्ष्यञि पूर्वपदस्यादिवृद्धिः । अयाथातथ्यमिति । उत्तरपदस्यादिवृद्धिः । आयथापुर्यमिति । यथापुरशब्दात्ष्यञि पूर्वपदस्यादिवृद्धिः । अयाथापुर्यमिति । उत्तरपदस्यादिवृद्धिः । आ पदासमाप्तेरिति । अत्र व्याख्यानमेव शरणम् । चतुर्वर्णादीनामिति । चतुर्वर्णादीभ्यः स्वार्थे ष्यञ उपसङ्ख्यानमित्यर्थः । सर्ववेदा इति । 'पूर्वकाल' इति समासः । लुगिति ।अध्येतृप्रत्ययस्ये॑ति शेषः । स एव सार्ववैद्य इति । सर्ववेदशब्दात्स्वार्थे ष्यञिति भावः । चतुर्वेदस्येति । वार्तिकमिदम् ।ष्य॑ञिति शेषः । चतुर्वेद इति । 'तद्धितार्थ' इति द्विगुः । ततोऽध्येतृप्रत्ययस्याऽणोद्विगोर्लुगनपत्ये॑[ इति लुक् । चतुर्विद्यस्येतीति ।चतुर्वेदस्योभयपदवृद्धिश्चे॑ति वार्तिके चतुर्वेदस्येत्यस्य स्थाने चतुर्विद्यस्येति केचित्पठिन्तीत्यर्थः । चतरुआओ विद्या अधीते इत्यर्थे 'तद्धितार्थ' इति द्विगौविद्यालक्षणकल्पान्ताच्चे॑ति ठकि 'द्विगोर्लुगनपत्ये' इति तस्य लुकि चतुर्विद्यशब्दात्स्वार्थे ष्यञि उभयपदवृद्धौ 'चातुर्वैद्य' इति रूपमिति भावः ।
index: 7.3.31 sutra: यथातथयथापुरयोः पर्यायेण
ब्राह्मणादिषु नञ्समासावेतौ द्रष्टव्याविति । तेन'न नञ्पूर्वात्' इति ष्यञः प्रतिषेधो न भवतीति भावः । यथाऽसादृश्य इत्यव्ययीभावसमास इति । पदार्थानतिवृतौ । तथाभावमनतिक्रान्तं यथातथमुसत्यमुच्यते, यद्वस्तु पुरा यथाभूतं तदद्यापि तथाभावमनतिक्रान्तं यथापुरमुच्यते । किं पुनरव्ययीभावत्वे प्रमाणम् ? इत्यत आह - तथा हीति । भाष्ये त्विति । न हि ह्रस्वत्वमकृत्वा । विग्रहप्रदर्शनमव्ययीभावस्योपपद्यते । अयं योगः शक्योऽवक्तुम् । कथम् ? यदा पूर्वपदस्य वृद्धिः, नञ्समासाद्भावप्रत्ययः । यदा तूतरपदस्य वृद्धिस्तदा ष्यञन्तेन नञ्समासः । स्वरेऽपि नास्ति विशेषः;अव्ययपूर्वपदप्रकृतिस्वरेणाअद्यौदातत्वात् । प्रत्ययान्तरं चाभ्यां न भवति; अनभिधानात् ॥