7-3-9 पदान्तस्य अन्यतरस्याम् वृद्धिः अचः ञ्णिति तद्धितेषु आदेः न श्वा
श्वादेरङ्गस्य पदशब्दान्तस्यान्यतरस्यां यदुक्तं तद् न भवति। श्वपदस्येदं श्वापदम्, शौवापदम्॥
श्वादेरङ्गस्य पदशब्दान्तस्यैज्वा । श्वापदस्येदं श्वापदम् । शौवापदम् ॥
<<पदान्तस्यान्यतरस्याम्>> - प्रसङ्गादाह — पदान्तस्यान्यतरस्याम् ।आआदेरिञी॑त्यस्यमादुत्तरं सूत्रमिदम् । पदं-पदशब्दोऽन्तो यस्येति विग्रहः । तदाह — पदशब्दान्तस्येति ऐज्वेति । निषेधविकल्पे सति विधिविकल्पः । फलित इति भावः । आआपदस्येति । शुनः पदमिव पदं यस्येति विग्रहः ।शुनो दन्तदंष्ट्रे॑त्यादिना दीर्घः । शौवापदमिति ।तस्येद॑मित्यण् । 'वृद्धाच्छः' इति तु न , अनभिधानादित्याहुः । अन्ये तु आपुच्छवद्दीर्घाऽभावे अणमाहुः ।