अवयवादृतोः

7-3-11 अवयवात् ऋतोः वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य

Kashika

Up

index: 7.3.11 sutra: अवयवादृतोः


पूर्ववर्षिकम्। अपरवार्षिकम्। पुर्वहैमनम्। अपरहैमनम्। यत्र पञ्चमीनिर्देशो न अस्ति जे प्रोष्ठपदानाम् 7.3.18 इत्येवमादौ, तदर्थमुत्तरपदाधिकारः। पञ्चमीनिर्देशेष्वपि विस्पष्टार्थम्, वृद्धेश्च व्यपदेशार्थम्। उत्तरपदवृद्धौ सर्वं च 6.2.105 इति उत्तरपदाधिकारे या वृद्धिः इत्येवं विज्ञायते। अवयवादृतोः 7.3.11। अवयववाचिनः उत्तरस्य ऋतुवाचिनः उत्तरपदस्य च अचामादेः अचः वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः। पूर्ववार्षिकम्। पूर्वहैमनम्। अपरवार्षिकम्। अपरहैमनम्। पूर्वं वर्षाणाम्, अपरं वर्षाणाम् इति एकदेशिसमासः। तत्र भवः 4.3.53 इत्येतसिमिन्नर्थे वर्षाभ्यष्ठक् 4.3.18, हेमन्ताच् च 4.3.21, सर्वत्र अण् तलोपश्च 4.3.22 इत्यण् प्रत्ययः। तत्र ऋतोर्वृद्धिमद्विधौ अवयवातिति तदन्तविधिः। अवयवातिति किम्? पूर्वासु वर्षासु भवम् पौर्ववर्षिकम्। कालाट् ठञ् 4.3.11 इति ठञ्। अवयवपूर्वस्य एव तदन्तविधिः, न अन्यस्य।

Siddhanta Kaumudi

Up

index: 7.3.11 sutra: अवयवादृतोः


मध्यशब्दादकारप्रत्ययः स्यात्सांप्रतिकेऽर्थे । उत्कर्षापकर्षहीनो मध्यो वैयाकरणः । मध्यं दारु । नातिह्रस्वं नातिदीर्घमित्यर्थः ॥

Balamanorama

Up

index: 7.3.11 sutra: अवयवादृतोः


अवयवादृतोः - अवयवादृतोः । पूर्वपदादिति ।परस्ये॑ति शेषः । ऋतुवाचिन इति ।उत्तरपदस्ये॑ति सेषः । पूर्ववार्षिक इति । ऋतिविशेषे वर्णशब्दो नित्यस्त्रीलिङ्गो बहुवचनान्तः । वर्षाणां पूर्वं-पूर्ववर्षाः, तत्र जात इत्यर्थः । पूर्वापराधरोत्तर॑मित्येकदेशिसमासः । अपरहैमन इति । हेमन्तस्यापरम्-अपरहेमन्तः । तत्र जातादिरित्यर्थः । एकदेशिसमासः । अपरहैमन इति । हेमन्तस्यापरम् — अपरहेमन्तः । तत्र जातादिरित्यर्थः । एकदेशिसमासः ।सर्वत्राण्च तलोपश्चे॑त्यण्, तलोपश्च, उत्तरपदादिवृद्धिः । पूर्वासु वर्षास्विति । 'तद्धितार्थ' इति समासः । आदिवृद्धिरेव, न तु उत्तरपदादि वृद्धिः, पूर्वपदस्य अवयववृत्तित्वाऽभावात् । ननु कथमिहवर्षाभ्यष्ठ॑गिति ठक्, प्रत्ययविधौ तदन्तविधिप्रतिषेधात्, तत्राह — ऋतोरिति । अवयववाचकानां शब्दानामुपरि स्थिताट्टतुवाचकाद्वृद्धिनिमित्तकप्रत्ययविधाने कर्तव्ये तदन्तविधिर्वाच्य इत्यर्थकेनयेन विधि॑रिति सूत्रभाष्यस्थितवचनेन पूर्वत्र=पूर्वमुदाहृते उदाहरणे तदन्तविधिरित्यर्थः । तथाच पूर्ववार्षिक इत्यत्र 'पूर्वहैमन' इत्यत्र चोदाहरणेवर्षाभ्यष्ठ॑गिति ठक्,सर्वत्राण् च तलोपश्चे॑त्यण्तलोपौ च सिध्यन्ति । इह तु नेति । प्रत्युदाहरणे तु तदन्तविधिर्नास्ति । पूर्वासु वर्षास्विति सामानाधिकरण्येन पूर्वशब्दस्य अवयववृत्तित्वाऽभावादित्यर्थः । ततश्च प्रत्युदाहरणे 'पौर्ववार्षिक' इत्यत्रकालाट्ठञि॑ति ठञेव, नतु ठक् । स्वरे विशेषः । पौर्वहेमन्तिक इत्यत्रापि ठञेवेति भावः ।

Padamanjari

Up

index: 7.3.11 sutra: अवयवादृतोः


ऋतोर्वृद्धिमद्विधावित्यादि । ऋतोःउऋतुवाचिनः शब्दाद्वृद्धिमद्विधौउवृद्धिनिमिते प्रत्यये विधीयमाने तदन्तविधिः, ऋतुशब्दान्तादपि प्रत्ययो भवतीत्यर्थः । किं सर्वत्र ? नेत्यत आह - अवयवादिति । अवयववचनात् परो यदा ऋतुवचनस्तदेत्यर्थः । ये तु - अवयवानामिति षष्ठीबहुवचनान्तं पठन्ति, तेषां न समीचीनोऽर्थः । तथा च'सुसर्वार्धदिक्शब्देभ्यः' इति पञ्चम्या निरदेशि । पूर्वासु वर्षासु भव इति ।'तद्धितार्थ' इति समासः । अन्ये तु - अदिक्शब्दत्वाद्विशेषसमासं मन्यन्ते । अथात्रापि तदन्तविधिना वर्षाभ्यष्ठगेव कस्मान्न भवति ? अत आह - अवयवपूर्वस्यैव हीति ॥