7-2-86 युष्मदस्मदोः अनादेशे आः विभक्तौ
index: 7.2.86 sutra: युष्मदस्मदोरनादेशे
युष्मदस्मदित्येतयोः अनादेशे विभक्तौ परतः आकारादेशो भवति। युष्माभिः। अस्माभिः। युष्मासु। अस्मासु। अनादेशे इति किम्? युष्मत्। अस्मत्। हलि इत्यधिकारादप्यत्र न स्यात्। उत्तरत्र तु अनादेशग्रहणेन प्रयोजनम् योऽचि 7.2.89 इति, तदिहैव क्रियते।
index: 7.2.86 sutra: युष्मदस्मदोरनादेशे
अनयोराकारः स्यादनादेशे हलादौ परे । युवाभ्याम् । आवाभ्याम् । युष्माभिः । अस्माभिः ॥
index: 7.2.86 sutra: युष्मदस्मदोरनादेशे
अनयोरात्स्यादनादेशे हलादौ विभक्तौ । युवाभ्याम् । आवाभ्याम् । युष्माभिः । अस्माभिः ॥
index: 7.2.86 sutra: युष्मदस्मदोरनादेशे
युष्मदस्मदोरनादेशे - युष्मदस्मदोरनादेशे । 'अष्टन आ विभक्तौ' इत्यत आ इति विभक्ताविति चानुवर्तते ।रायो हली॑त्यतो हलीत्यनुवृत्तं विभक्तिविशेषणम् । तदादिविधिः । तदाह-अनयोरिति । युष्मदस्मदोरन्त्यस्येत्यर्थः । वस्तुतस्तु हलीति नानुवर्तनीयम् । 'योऽचि' इत्यजादौ यत्वविधानेन परिशेषादेव तत्सिद्धेः । युवाभ्यामावाभ्यामिति । युष्मद् भ्याम्, अस्मद् भ्यामिति स्थिते युवावादेशयोर्दकारस्य आत्वे सवर्णदीर्घ इति भावः । त्र हलीत्यनुवृत्तौयोऽची॑त्यज्ग्रहणं मास्तु । हलादावात्वस्य विशेषविहितत्वादेव यत्वनिवृत्तिसिद्धेरिति भाष्ये स्पष्टम् । युष्माभिः अस्माभिरिति ।युष्मदस्मदोरनादेशे॑ इत्यात्वे सवर्णदीर्घ इति भावः । अथ चतुर्थी । युष्मद् ए, अस्मद् ए इति स्थितौ 'त्वमावेकवचने' इति प्राप्ते- ।
index: 7.2.86 sutra: युष्मदस्मदोरनादेशे
युष्मदस्मदिति । पञ्चम्यां अत् इति भ्यसोऽद्भावः । हलीत्यधिकारादप्यत्र न स्यादिति । न चादेशो हलादिरस्ति, भ्यसोभ्यम् त्यियं तु अभ्यमादेशः । उतरत्रेति । योऽचि इति यत्वमादेशे मा भूत् त्वमहमित्यादौ शेषे लोपः इति शेषव्यवस्थार्थं च । तदिहैव क्रियत इति । लघवे विशेषाभावात् ॥