ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्

7-2-5 ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् सिचि वृद्धिः परस्मैपदेषु न एटि

Kashika

Up

index: 7.2.5 sutra: ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्


हकारान्तानां मकारान्तानां यकारान्तानामङ्गानाम्, क्षण श्वस जागृ णि श्वि इत्येतेषाम्, एदितां च इडादौ सिचि परस्मैपदे परतो वृद्धिर्न भवति। ग्रह अग्रहीत्। स्यम अस्यमीत्। व्यय अव्ययीत्। टुवम अवमीत्। क्षण अक्षणीत्। श्वस अश्वसीत्। जागृ अजागरीत्। णि औनयीत्। ऐलयीत्। श्वि अश्वयीत्। एदिताम् रगे अरगीत्। कखे अकखीत्। ह्म्यन्तक्षणश्वसाम् एदिताम् च अतो हलादेर्लघोः 7.2.7 इति विकल्पे प्राप्ते प्रतिषेधः। जागृणिश्वीनां तु सिचि वृद्धिः प्राप्ता, सा च नेटि 7.2.4 इति न प्रतिषिध्यते। न च अन्तरङ्गत्वादत्र पूर्वं गुणो भवति, सिचि वृद्धेरनवकाशत्वात्। यदि पूर्वं गुणः स्यादिह णिश्विग्रहणमनर्थकं स्यात्, गुणायादेशयोः कृतयोः यकारन्तत्वादेव प्रतिषेधस्य सिद्धत्वात्। तस्मादिदम् एव श्विग्रहणं ज्ञापकम् न सिद्यन्तरङ्गमस्तीति। अथ जागृग्रहणम् किमर्थम्, जाग्रोऽविचिण्णल्ङित्सु 7.3.85 इति जागर्तेर्गुणो वृद्धेरपवादो विधीयते, स यथा अचो ञ्णिति 7.2.115 इति वृद्धिं बाधते तथा सिचि वृद्धिमपि बाधिष्यते? न एतदस्ति। कृते गुणे अतो ल्रान्तस्य 7.2.2 इति य वृद्धिः प्राप्नोति सा प्रतिषिध्यते। अथ गुणविधानसमर्थ्यादुत्तरकालभाविन्यपि वृद्धिर्बाध्यते, यथा जागरयति इत्यत्र अत उपधायाः 7.2.116 इत्यपि वृद्धिर्न भवति, तथा चिण्णलोः प्रतिषेधोऽर्थवान् भवतीति शक्यम् इह जागृग्रहणमकर्तुम्? तत् तु क्रियते विस्पष्टार्थम्।

Siddhanta Kaumudi

Up

index: 7.2.5 sutra: ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्


हमयान्तस्य क्षणादेर्ण्यन्त्य श्वयतेरेदितश्च वृद्धिर्न स्यादिडादौ सिचि । अकटीत् ।{$ {!295 अट!} {!296 पट!} गतौ $}। आट । आटतुः । आटुः । पपाट । पेटतुः । पेटुः ।{$ {!297 रट!} परिभाषणे$} । रराट ।{$ {!298 लट!} बाल्ये$} । ललाट ।{$ {!299 शट!} रुजाविशरणगत्यवसादनेषु$} । शशाट ।{$ {!300 वट!} वेष्टने$} । ववाट । ववटतुः । ववटुः । ववटिथ ।{$ {!301 किट!} {!302 खिट!} त्रासे $}। केटति । खेटति ।{$ {!303 शिट!} {!304 षिट!} अनादरे $}। शेटति । शिशेट । सेटति सिषेट ।{$ {!305 जट!} {!306 झट!} संघाते $}।{$ {!307 भट!} भृतौ$} ।{$ {!308 तट!} उच्छ्राये$} ।{$ {!309 खट!} काङ्क्षायां {!310 णट!} नृत्तौ$} ।{$ {!311 पिट!} शब्दसंघातयोः$} ।{$ {!312 हट!} दीप्तौ$} ।{$ {!313 षट!} अवयवे$} ।{$ {!314 लुट!} विलोडने$} । डान्तोऽयमित्येके ।{$ {!315 चिट!} परप्रेष्ये$} ।{$ {!316 विट!} शब्दे$} ।{$ {!317 बिट!} आक्रोशे$} । बशादिः । हिटेत्येके{$ {!318 इट!} {!319 किट!} {!320 कटी!} गतौ$} । एटति । केटति । कटति । ईकारः श्वीदितो निष्ठायाम् <{SK3039}> इतीण्निषेधार्थः । केचित्तु इदितं मत्वा नुमि कृते कण्टतीत्यादि वदन्ति । अन्ते च इ ई इति प्रश्लिष्य । अयति । इयाय । इयतुः । इयुः । इययिथ । इयेथ । इयाय । इयय । दीर्घस्यतु इजादेश्च-<{SK2237}> इत्यामि अयांचकारेत्याद्युदाहरन्ति ।{$ {!321 मडि!} भूषायाम्$} ।{$ {!322 कुडि!} वैकल्ये$} । कुण्डति । कुण्डत इति तु दाहे गतम् ।{$ {!323 मुड!} {!324 प्रुड!} मर्दने$} ।{$ {!325 चुडि!} अल्पीभावे$} ।{$ {!326 मुडि!} खण्डने$} । मुण्डति । पुडि चेत्येके । पुण्डति{$ {!327 रुटि!} {!328 लुटि!} स्तेये$} । रुण्टति । लुण्टति । रुठि लुठि इत्येके । रुडि लुडि इत्यपरे{$ {!329 स्फुटिर्!} विशरणे$} । इरित्वादङ्वा । अस्फुटत् । अस्फोटीत् । स्फुटि इत्यपि केचित् । इदित्त्वान्नुम् । स्फुण्टति ।{$ {!330 पठ!} व्यक्तायां वाचि$} । पेठतुः । पेठिथ । अपठीत् । अपाठीत् ।{$ {!331 वठ!} स्थौल्ये$} । ववठतुः । ववठिथ ।{$ {!332 मठ!} मदनिवासयोः$} ।{$ {!333 कठ!} कृच्छ्रजीवे$} ।{$ {!334 रट!} परिभाषणे$} । रठेत्येके ।{$ {!335 हठ!} प्लुतिशठत्वयोः$} । बलात्कार इत्येके । हठति । जहाठ ।{$ {!336 रुठ!} {!337 लुठ!} {!338 उठ!} उपघाते$} । ओठति । ऊठेत्येके । ऊठति । ऊठांचकार ।{$ {!339 पिठ!} हिंसासंक्लेशनयोः$} ।{$ {!340 शठ!} कैतवे च$} ।{$ {!341 शुठ!} प्रतिघाते$} । शोठति । शुठीति स्वामी । शुण्ठति ।{$ {!342 कुठि!} च$} । कुण्ठति ।{$ {!343 लुठि!} आलस्ये प्रतिघाते च$} ।{$ {!344 शुठि!} शोषणे$} ।{$ {!345 रुठि!} {!346 लुठि!} गतौ$} ।{$ {!347 चुड्ड!} भावकरणे$} । भावकरणमभिप्रायसूचनम् । चुड्डति । चुचुड्ड ।{$ {!348 अड्ड!} अभियोगे$} । अड्डति । आनड्ड ।{$ {!349 कड्ड!} कार्कश्ये$} । कड्डति । चुड्डादयस्रयो दोपधाः । तेन क्विपि, चुत् । अत् । कत् । इत्यादि ।{$ {!350 क्रीडृ!} विहारे$} । चिक्रीड ।{$ {!351 तुडृ!} तोडने$} । तोडति । तुतोड । तूड इत्येके ।{$ {!352 हुडृ!} {!353 हूडृ!} {!354 होडृ!} गतौ$} । हुड्यात् । हूड्यात् । होड्यात् ।{$ {!355 रौडृ!} अनादरे$} ।{$ {!356 रोडृ!} {!357 लोडृ!} उन्मादे$} ।{$ {!358 अड!} उद्यमे$} । अडति । आड । आडतुः । आडुः ।{$ {!359 लड!} विलासे$} । लडति । लडयोर्लळयोश्चैकत्वस्मरणाल्ललतीति स्वम्यादयः ।{$ {!360 कड!} मदे$} । कडति । कडि इत्येके । कण्डति ।{$ {!361 गडि!} वदनैकदेशे $}। गण्डति । इति टवर्गीयान्ताः ॥ अथ पवर्गीयान्ताः । तत्रानुदात्तेतः स्तोभत्यन्ताश्चतुस्त्रिंशत् ।{$ {!362 तिपृ!} {!363 तेपृ!} {!364 ष्टिपृ!} {!365 ष्टेपृ!} क्षरणार्थाः$} । आद्योऽनुदात्तः । क्षीरस्वामी त्वयं सेडिति बभ्राम । तेपते । तितिपे । क्रादिनियमादिट् । तितिपिषे । तेप्ता । तेप्स्यते ।

Laghu Siddhanta Kaumudi

Up

index: 7.2.5 sutra: ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्


हमयान्तस्य क्षणादेर्ण्यन्तस्य श्वयतेरेदितश्च वृद्धिर्नेडादौ सिचि । अकटीत् । अकटिष्यत् ॥ {$ {! 12 गुपू !} रक्षणे $}॥

Balamanorama

Up

index: 7.2.5 sutra: ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्


ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् - ह्रन्त । ह्रन्त क्षम आस जागृ इआ एदित् — एषां द्वन्द्वात्षष्ठी । ह् म् य् इत्येते वर्णा येषामन्तेते ह्रन्ताः । तदाह — हमयान्तस्येति । क्षणादेरिति । आदिना आस जागृ इत्यनयोग्र्रहणम् । ण्यन्तस्येति । प्रत्ययग्रहणपरिभाषया णिग्रहणेन तदन्तग्रहणमिति भावः । आयतेरिति । इआधातोरित्यर्थः । एदित इति । एत् इद्यस्येति विग्रहः । वृद्धिर्न स्यादिति ।सिचि वृद्धि॑रित्यतो,नेटी॑त्यतश्च तदनुवृत्तेरिति भावः । इडादौ सिचीति ।सिचि वृद्धि॑रित्यतः सिचीति,नेटी॑त्यत इटीति चानुवर्तत इति भावः । अकटीदिति । एदित्वान्न वृद्धिः । अट पटेति ।अत आदे॑रिति दीर्घं मत्वाह - आटेति । पेटतुरिति । एत्त्वाभ्यासलोपौ । वटवेष्टने । ववटतुरिति ।न शसददवादिगुणाना॑मिति निषेधः । ववटिथेति । अत्रथलि च सेटी॑ति प्राप्तस्यन शसददे॑ति निषेधः । किट खिट त्रास इति । यद्यपि 'इट किट कटी गता' विति अग्रे किटधातुः पठते, तथाप्यर्थ भेदात्पुनरिह पाठः । खिट त्रासे,किट गतौ चेति पठितुं युक्तम् । शिट षिटेति । आद्यस्तालव्यादिः । द्वितीयस्तु षोपदेशः । जट झटेति । आद्यस्य अवैरूप्यापादकादेशादित्वादेत्त्वाऽभ्यासलोपौ । द्वितीयस्य तु न । जेटतुः जझटतुः । णट नृत्ताविति । णोपदेशेः । चुरादारेव नाटेः पर्युदासादयं णोपदेश एव । प्रणटति । इट किट कटी गताविति ।कटे वर्षाऽवरणयो॑रिति कटिः पूर्वमेदित्पठितः । इह ईदित्पठते । एदित्त्वाऽभावात् ह्रन्तेति वृद्धिनिषेधो न भवति । अकटीत् अकाटीत् । ननु तर्हि कटेत्येव कुतो न पठत इत्यत आह — ईकार इति । केचित्त्विति । कटि इति ह्रस्वान्तपाठं मत्वा इदित्त्वान्नुमि कृते अनुस्वारे परसवर्णे च कण्टतीति वदन्तीत्यर्थः । अन्ये त्विति । उदाहरन्तीत्यन्वयः । प्रश्लिष्येति । कटीत्यनन्तरम् इ ई इति धातुद्वयं सवर्णदीर्घेण प्रश्लिष्य निर्दिष्टमिति भावः । अयतीति । इधातोर्लटि शपि गुणेऽयादेशः । इयायेति । णलि द्वित्वे वृद्धौ आयादेशे 'अभ्यासस्याऽसवर्णे' इति इयङ् । इयुतिरिति । इकारोऽत्र ह्रस्वः । तथाहि — इ-अतुसिति स्थिते कित्त्वाऽद्गुणाऽभावेद्विर्वचनेऽची॑ति निषेधाद्यणभावे 'इ' इत्यस्य द्वित्वे इ इ अ — तुसिति स्थिते सवर्णपरकत्वादभ्यासस्य इयङभावे सति 'वार्णादाङ्गं बलीय' इति सवर्णदीर्घं बाधित्वा 'एरनेकाच' इत्युत्तरखण्डस्य यणिइयतु॑रिति रूपम् । इधातोर्भारद्वाजनियमात्थलि वेट् । तत्र इट्पक्षे रूपमाह — इययिथेति । थलि द्वित्वे इटि पित्त्वेन कित्त्वाऽभावाद्गुणेऽयादेशेऽभ्यासस्य इयङ् । न चाऽचः परस्मिन्निति गुणस्य स्थानिवत्त्वेनाऽसवर्णपरत्वाऽभावात्कथमभ्यासस्य इयङिति वाच्यम्, असवर्णग्रहणसामर्थ्यादेव स्थानिवत्त्वाऽप्रसक्तेः । एवं णलि इयायेत्यत्रापि वृद्धेर्न स्थानिवत्त्वम् । थलि इडभावपक्षे रूपमाह — इयेथेति । थलि द्वित्वे गुणेऽभ्यासस्येयङ् । अथुसि इयथुः । इयेति । थस्य अकारादेशे द्वित्वे उत्तरखण्डस्य 'एरनेकाच' इति यणि रूपम् ।णलुत्तमो वे॑ति णित्त्वपक्षे आह-इयायेति । द्वित्वे पित्त्वेन कित्त्वाऽभावाद्वृद्धावायादेशेऽभ्यासस्य इयङ् । णित्त्वाभावे आह — इययेति । द्वित्त्वे पित्त्वेन कित्त्वाऽभावाद्गुणेऽयादेशेऽभ्यासस्येयङ् । वसि मसि च क्रादिनियमान्नित्यमिटि द्वित्वे उत्तरखण्डस्य 'एरनेकाच' इति यणि इयिव इयिमेति रूपम् । एता एष्यति अयतु आयत् अयेत् । आशीर्लिङि तुअकृत्सार्वधातुकयो॑रिति दीर्घः । ईयात् । सिचि वृद्धिः । ऐषीत् । ऐष्यत् । दीर्घस्य त्विति । दीर्घस्य ईधातोरित्यर्थः । तस्य लिटं वर्जयित्वा लडादिषु पूर्ववत् । लिटि विशेषमाह — अयाञ्चकारेति । ईधातोरामि गुणे अयादेशः, अनुप्रयोगश्च । कुडि वैकल्य इति । वैकल्यमविवेक इत्याहुः । अपूर्णभावो वा । मुड प्रुड मर्दन इत्यादि । स्पष्टम् । पठधातोर्लिटि अतुसादौ किति एत्वाभ्यासलोपौ । तदाह - पेठतुरिति । पेठिथेति । पित्त्वेन अकित्त्वेऽपिथलि च सेटी॑त्येत्त्वाभ्यासलौपौ । अपठीत् अपाठीदिति ।अतो हलादेर्लघो॑रिति वृद्धिविकल्पः । वठ स्थौल्य इति । स्थौल्यं — स्थूलीभवनम् ।न शसददवादिगुणाना॑मित्येत्वाभ्यासलोपनिषेध इति मत्वाह — ववठतुः । ववठिथेति । दोपधा इति । ष्टुत्वेन डोपधनिर्देश इति भावः । चुदिति । चुड्डधातोः क्विपि हल्ङ्यादिना सुलोपे द्वितीयस्य डस्य संयोगान्तलोपे ष्टुत्वनिवृत्तौ 'वावसाने' इति चर्त्त्वे चुदिति रूपम् । अदिति । अड्डधातोः क्विपि पूर्ववद्रूपम् । कदिति । कड्डधातोः क्विपि रूपम् । इत्यादीति । आदिना जश्त्वेन चुदित्यादिसङ्ग्रहः । एकत्वस्मरणादिति ।शिक्षादा॑विति शेषः । गडडि वदनेति । तवर्गान्तेषु गडीति गतम् । परस्मैपदिनः शौटु गर्व इत्यादयो गताः । तिपृ इति । प्रथमतृतीयाविदुपधौ । द्वितीयचतुर्थौ एदुपधौ । तृतीयचतुर्थौ षोपदेशौ च,तकारस्य ष्टुत्वेन टकारस्य निर्दिष्टतया दन्त्यपरकसादित्वात् । आद्य इति । तिपृधातुरित्यर्थः । भाष्यादावनुदात्तोपदेशेष्वस्य पाठादिति भावः । बभ्रामेति । भाष्यविरुद्धत्वादिति भावः । आद्यस्योदाहरति — तेपत इति । शपि लघूपधगुणः । तितिप इति ।असंयोगा॑दिति कित्त्वान्न गुणः । अथ तितिपिष इत्यत्र 'एकाच उपदेश' इति निषेधमाशङ्क्याह - क्रादिनियमादिति । तेप्स्यत इति । लोडादौ तु तेपतामा, अतेपत, तेपेत । अथाशीर्लिङि सीयुटि सुटि तिप्सीष्टेति रूपं वक्ष्यति । तत्र लघूपधगुणे प्राप्ते — ।

Padamanjari

Up

index: 7.2.5 sutra: ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्


उदाहरणेषु ग्रह उपादेने, स्यमु स्वनध्वन शब्दे, टुअवम उद्गिरणे, व्ययवितसमुत्सर्गे, क्षणु हिंसायाम्, श्वस प्रणने, जगृ निद्राक्षये, ऊन परिहाणे इल प्रेरणे चुरादी, टुअओश्वि गतिवृद्ध्योः, रगे लगे सगे सर्वरणे, कखे खगे कगे हसने इति धातवः । ऊनयत्येलयत्योर्नोनयतिध्वनयतीति चङ्ः प्रतिषेधः । यदि च पूर्व गुणः स्यादित्यादि । एतदपि सिचिवृद्धिसूत्र एव व्याख्यातम् । अथ जागृग्रहणं किमर्थमिति । येन पृष्ट्ंअ स एव यथैतन्न कर्तव्यं तथा दर्शयति - जाग्रोऽविचिण्णल्ङित्स्विति । कृते गुणे इत्यादि । अङ्गवृते पुनर्वृतावविधिः इत्येतत् नाश्रितम्, निष्ठितत्वस्य दुर्ज्ञानत्वात् । अथ त्विति । अन्यथा वृद्धिविषये गुणविधानमनर्थकं स्यादिति भावः । तथा चेति । चिण्णलोः प्रतिषेधेन उतरकालभाविवृद्धिमात्रं न भवतीति सामान्येन ज्ञाप्यते, न तूपधालक्षणवृद्धिर्न भवतीत्येवं विशेषेणेति भावः । जागृग्रहणे सति चायं सूत्राणां प्राप्तिक्रमः, जागृ - इस् - ईत् इति स्थिते पूर्व यण् प्राप्तः, तमपवादत्वात् सार्वधातुकार्धधातुकयोः इति गुणो बाधते, तमपि सिचि वृद्धिः, तामपि जागर्तिगुणः, तत्र कृते हलन्तलत्रणा वृद्धिः, तस्याः नेटि इति प्रतिषेधः, ततः अतो हलादेर्लघोः 7.2.7 इति वकल्पः, ततः अतो लरन्तस्य इति नित्या वृद्धिः, ततोऽयं प्रतिषेध थैति । आह च गुणो वृद्धिर्गुणो वृद्धिः प्रतिषेधो विकल्पनम् । पुनर्वृद्धिर्निषेदोऽतो यण्पूर्वाः प्राप्तयो नव ॥