ऊर्णोतेर्विभाषा

7-2-6 ऊर्णौतेः विभाषा सिचि वृद्धिः परस्मैपदेषु न एटि

Kashika

Up

index: 7.2.6 sutra: ऊर्णोतेर्विभाषा


ऊर्णोतेरिडादौ सिचि परस्मैपदपरे परतो यिभाषा वृद्धिर्न भवति। प्रौर्णवीत्, प्रौर्णावीत्। विभाषोर्णोः 1.2.3 इति अङित्त्वपक्षे वृद्धिविकल्पोऽयम्। ङित्त्वपक्षे तु गुणवृद्ध्योरभावे उवङ् भवति। प्रौर्णुवीत्।

Siddhanta Kaumudi

Up

index: 7.2.6 sutra: ऊर्णोतेर्विभाषा


इडादौ सिचि परस्मैपदे परे वा वृद्धिः स्यात् । पक्षे गुणः । और्णावीत् । और्रणविष्टाम् । और्णाविषुः । और्णवीत् ।{$ {!1040 द्यु!} अभिगमने$} । द्यौति । द्योता ।{$ {!1041 षु!} प्रसवैश्वर्ययोः$} । प्रसवोऽभ्यनुज्ञानम् । सोता । असौषीत् ।{$ {!1042 कु!} शब्दे$} । कोता ।{$ {!1043 ष्टुञ्!} स्तुतौ$} । स्तौति । स्तवीति । स्तुतः । स्तुवीतः । स्तुते । स्तुवीते । स्तुसुधूञ्भ्यः - <{SK2385}> इतीट् । अस्तावीत् । प्राक्सितात् - <{SK2276}> इति षत्वम् । अभ्यष्टौत् । सिवादीनां वा <{SK2359}> । पर्यष्टौत् । प्रयस्तौत् ।{$ {!1044 ब्रूञ्!} व्याक्तायां वाचि$} ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.6 sutra: ऊर्णोतेर्विभाषा


इडादौ सिचि वा वृद्धिः परस्मैपदे परे । पक्षे गुणः । और्णावीत्, और्णुवीत् । और्णवीत् और्णाविष्टाम्, और्णुविष्टाम् और्णविष्टाम् । और्णुविष्ट, और्णविष्ट । और्णुविष्यत्, और्णविष्यत् । और्णुविष्यत, और्णविष्यत ॥इत्यदादयः ॥

Balamanorama

Up

index: 7.2.6 sutra: ऊर्णोतेर्विभाषा


ऊर्णोतेर्विभाषा - ऊर्णोतेर्विभाषा ।सिचि वृद्धिः परस्मैपदेषु॑ इत्यनुवर्तते,नेटी॑त्यत इटीति च । तदाह — इडादाविति । आत्मनेपदे तु लुङि और्णविष्ट और्णुविष्ट । और्णविष्यत् — और्णुविष्यत् । और्णविष्यत — और्णुविष्यत । द्यु इति । अनिट् । द्यौतीति । उतो वृद्धिः । सार्वधातुके लिटि च युधातुवत् । द्योतेति । द्योष्यति । अद्यौषीत् । षु प्रसव इति । षोपेशोऽयम् । अनिट् । सौतीत्यादि द्युदातुवत् । एवं कु शब्दे इतय्पि । ष्टुञ् स्तुताविति । उभयपदी अनिट् । 'तुरुस्तुशम्ययः' इति ईड्विकल्पम्, ईडभावपक्षे तु उतो वृदिंध च मत्वा आह — स्तौति स्तवीतीति । स्तुवन्ति । स्तौषि — स्तवीषि, स्तुथः — स्तुवीथः, स्तुथ-स्तुवीथ । स्तौमि-स्तवीमि, स्तुवःस्तुवीमः । स्तुमः । स्तुवीमः । आत्मनेपदे लटि ईड्विकल्पं मत्वा आह — स्तुते । स्तुवीते इति । स्तुवाते स्तुवते । स्तुषे — स्तुवीषे स्तुवाथे स्तुध्वे-स्तुवीद्वे ।स्तुवे स्तुवहे — स्तुवीवहे स्तुमहे — स्तुवीमहे । लिटि — तुष्टाव तुष्टुवतुः तुष्टुवुः । क्रादित्वात्थल्यपि नेड्भवति । तुष्टोथ तुष्टुवथुः तुष्टुव । तुष्टाव — तुष्टव । तुष्टुव तुष्टुम । तुष्टुवे इत्यादि । स्तोता । स्तोष्यति स्तोष्यते । स्तौतु — स्तुवीतु, स्तुतात् — स्तुवीतात्, स्तुताम् — स्तुवीताम्, स्तुवन्तु । स्तुहि — स्तुवीहि, स्तुतात् — स्तुवीतात्, स्तुतम्-स्तुवीतम्, स्तुत-स्तुवीत । स्तवानि स्तवाव स्तवाम । स्तुताम् — स्तुवीताम्, स्तुवाताम्, स्तुवताम् । स्तुष्व — स्तुवीष्व स्तुवाथाम् स्तुध्वम् — स्तुवीध्वम् । स्तवै स्तवावहै स्तवावहै । लङि — अस्तौत्-अस्तवीत् अस्तुताम् — अस्तुवीतामस्तुवन् । अस्तौः — अस्तवीः, अस्तुतम् — अस्तुवीतम्, अस्तुत — अस्तुवीत । अस्तवम्, अस्तुव-अस्तुवीव, अस्तुम-अस्तुवीम । अस्तुत — अस्तुवीत अस्तुवातामित्यादि । विधिलिङि स्तुयात् — स्तुवीयादित्यादि । आत्मनेपदे स्तोषीष्टेत्यदि । लुङि सिचि इडभावे प्राप्ते आह — स्तुसुधूञ्भ्य इति । तथा चइट ईटी॑ति सिज्लोपे सिचि वृद्धौ अस्तावीदिति फलति । अस्ताविष्टामित्यादि । 'स्तुसुधूञ्भ्यः' इत्यत्र परस्मैपदेष्वित्यनुवृत्तेरात्मनेपदे इण्न । अस्तोष्ट अस्तोषातामित्यादि ।