नेटि

7-2-4 न एटि सिचि वृद्धिः परस्मैपदेषु हलन्तस्य अचः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

इडादौ सिचि हलन्तस्याङ्गस्य वृद्धिर्न भवति। अदेवीत्। असेवीत्। अकोषीत्। अमोषीत्। हलन्तस्येत्येव — अलावीत्। ननु चैतदप्यन्तरङ्गत्वाद् गुणावादेशयोः कृतयोर्हलन्तं भवति। नैतदेवम्। अन्तरङ्गमपि गुणं वचनारम्भसामर्थ्यात् सिचि वृद्धिर्बाधत इत्युक्तम्७.२.१

Siddhanta Kaumudi

Up

इडादौ सिचि प्रागुक्तं न स्यात् । मा भवानतीत् । अतिष्टाम् । अतिषुः ।{$ {!39 चिती!} संज्ञाने$} । चेतति । चिचेत । अचेतीत् । अचेतिष्टाम् । अचेतिषुः ।{$ {!40 च्युतिर्!} आसेचने$} । सेचनमार्द्रीकरणम् । आङीषदर्थेऽभिव्याप्तौ च ।<!इर इत्संज्ञावाच्या !> (वार्तिकम्) ॥ च्योतति । चुच्योत ॥

Laghu Siddhanta Kaumudi

Up

इडादौ सिचि हलन्तस्य वृद्धिर्न। अगोपीत्, अगौप्सीत्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<नेटि>> - नेटि - नेटि। प्रागुक्तं नेति। ‘वदव्रजहलन्तस्याच’ इत्युक्तं नेत्यर्थः। तत्र वदव्रजयोर्विशिष्य विधानाद्धलन्तलक्षणाया एव वृद्धेर्निषेधोऽयम्। हलन्तलक्षणा वृद्धिस्तु अधाक्षीदित्यादावनिडादौ सिचि चरितार्था। नन्वातीदित्यातौ अकारस्य वृद्धौ सत्यामसत्यां च आटा एकादेशे सति रूपे विशेषाऽभावात् किं तन्निषेधेनेत्याशङ्क्याह— मा भवानतीदिति। माङ्योगे आडभावे सति वृद्धिनिषेधः सफल इति भावः। चितीति। ईदित्त्वं ‘श्वीदितो निष्ठाया’मिति इण्निषेधार्थम्। चेततीति। शपि लघूपधगुणः। चिचेतेति। तिबादेशणलः पित्त्वेन असंयोगादिति कित्त्वस्याऽप्रवृत्तेर्न गुणनिषेधः। चिचिततुरित्यादौ तु कित्त्वान्न गुणः। अचेतीदिति। ‘इट ईटी’ति सलोपः। अचेतिष्टामिति। अपृक्तत्वाऽभावादीडभावान्न सिज्लोपः। नेटीति निषेधान्न हलन्तलक्षणा वृद्धिः। च्युतिरिति। अत्र इकारस्य रेफस्य च प्रत्येकमित्संज्ञायामिदित्त्वान्नुमि प्राप्ते आह— इर इत्संज्ञेति। तथा च इरिति समुदायस्य इत्संज्ञकत्वादिदित्त्वाऽभावान्न नुमिति भावः। च्योततीति। लघूपधगुणः। चुच्योतेति। णलः पित्त्वेन कित्त्वाऽभावान्न गुणनिषेध इति भावः। चुच्युततुरित्यादौ तु कित्त्वान्न गुणः। लुङि च्लेः सिचि प्राप्ते।

Padamanjari

Up

उदाहरणेषु - दिवु क्रीडादौ, षिवु तन्तुसन्ताने, कुष निष्कर्षे, मुष स्तेये इति धातवः। ननुचेत्यादि चोद्यम्। नैतदेवमित्यादि परिहारः। उभयमप्येतत् सिचिवृद्धिसूत्रे व्याख्यातम्॥