छन्दस्युभयथा

6-4-86 छन्दसि उभयथा असिद्धवत् अत्र आभात् अचि यण् एः अनेकाचः असंयोगपूर्वस्य न भू सुधियोः

Sampurna sutra

Up

छन्दसि भूसुधियोः अङ्गस्य सुपि अचि यण् , न - उभयथा ।

Neelesh Sanskrit Brief

Up

वेदेषु - भूशब्दस्य तथा सुधी-शब्दस्य अजादि-सुप्-प्रत्यये परे यणादेशः कृतः अपि दृश्यते, न कृतः अपि दृश्यते ।

Neelesh English Brief

Up

In वेदाः, the words भू and सुधी might or might not undergo a यणादेश when followed by an अजादि सुप् प्रत्यय.

Kashika

Up

छन्दसि विषये भू सुधी इत्येतयोरुभयथा दृश्यते। वने॑षु चि॒त्रं वि॒भ्वं॑ वि॒शे (ऋ० ४.७.१)। वि॒भुवं॑ वि॒शे (तै०सं० १.५.५.१)। सु॒ध्यो॒३॒॑नव्य॑मग्ने (ऋ० ६.१.७)। सु॒धियो॒ नव्य॑मग्ने (तै० ब्रा० ३.६.१०.३)॥

Siddhanta Kaumudi

Up

भूसुधियोर्यण् स्यादियङुवङौ च । वनेषु चित्रं विभ्य (वने(स्ल)षु चि॒त्रं वि॒भ्य॑) । विभुवं वा । सुध्यो3 नव्य मग्ने (सु॒ध्यो॒3॒॑ नव्य॑ मग्ने) । सुधियो वा ।<!तन्वादीनां छन्दसि बहुलम् !> (वार्तिकम्) ॥ तन्वं पुषेम (त॒न्वं॑ पुषेम) । तनुवं वा । त्र्य॑म्बकम् (त्र्य॑म्बकम्) । त्रियम्बकम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

भूशब्दस्य तथा सुधीशब्दस्य अजादि सुप्-प्रत्यये परे <<ओः सुपि>> 6.4.83 इत्यनेन प्राप्तः यणादेशः <<न भूसुधियोः>> 6.4.85 इत्यनेन निषिध्यते । परन्तु वेदेषु एतयोः शब्दयोः यणादेशं कृत्वा / यणादेशं विना - उभयथा रूपाणि दृश्यन्ते । यथा 1. 'चित्रं विभ्वं विशेविशे' - ऋग्वेदः (4.7.1) - अत्र 'विभू' शब्दस्य द्वितीयैकवचनस्य रूपम् कर्तुम् यणादेशः कृतः दृश्यते । 2. 'चित्रं विभुवं विशेविशे' - तैत्तिरीयसंहिता (1.5.5) - अत्र 'विभू' शब्दस्य द्वितीयैकवचनस्य रूपम् कर्तुम् यणादेशं निषिध्य उवङ्-आदेशः कृतः दृश्यते । 3. 'यदी वाजाय सुध्यो वहन्ति' - ऋग्वेदः (4.21.8) - अत्र 'सुधी' शब्दस्य प्रथमाबहुवचनस्य रूपम् कर्तुम् यणादेशः कृतः दृश्यते ।

Balamanorama

Up

Padamanjari

Up