6-4-29 अवोदैधौद्मप्रश्रथहिमश्रथाः असिद्धवत् अत्र आभात् नलोपः उपधायाः घञि
अवोद एध ओद्म प्रश्रथ हिमश्रथ इत्येते निपात्यन्ते। अवोद इत्युन्देरवपूर्वस्य घञि नलोपो निपात्यते। अवोदः। एध इति इन्धेर्घञि नलोपो गुणश्च निपात्यते। <<न धातुलोप आर्धधातुके>> १.१.४ इति हि प्रतिषेधः स्यात्। एधः। ओद्म इति उन्देरौणादिके मन्प्रत्यये नलोपो गुणश्च निपात्यते। प्रश्रथः। हिमश्रथ इति हिमपूर्वस्य श्रन्थेर्घञ्येव निपातनम्। हिमश्रथः॥
अवोदः अवक्लेदनम् । एध इन्धनम् । ओद्म उन्दनम् । श्रन्थेर्नलोपो वृद्ध्यभावश्च ॥
उन्दी त्केदने, इन्धी दीप्तौ, श्रन्थ मोचनहर्षयोः ॥