6-1-184 नृ च अन्यतरस्याम् अन्तः उदात्तः विभक्तिः नाम् अन्यतरस्याम् न झल्
नृ इत्येतस्मात् परा झलादिर्विभक्तिरन्यतरस्यां नोदात्ता भवति। नृभ्या॑म्। नृभिः॑ (ऋ० १०.१४७.४)। नृभ्यः॒ (ऋ० १.४३.२)। नृषु॒ (ऋ० १.१८०.८)। झलित्येव — न्रा। न्रे॥
नुः परा झलादिर्विभक्तिर्वोदात्ता । नभिर्येमानः (नृभि॑र्येमा॒नः) ॥