6-1-186 तासि अनुदात्तेत् ङित् अदुपदेशात् लसार्वधातुक् अम् अनुदात्तम् अन्ह्विङोः उदात्तः नाम् अन्यतरस्याम्
तासेरनुदात्तेतो ङितोऽकारान्तोपदेशात् च शब्दात् परं लसार्वधातुकमनुदात्तं भवति ह्नुङ् इङ् इत्येताभ्यां परं वर्जयित्वा। तासेस्तावत् — क॒र्ता, क॒र्तारा॑ै,क॒र्तारः॑। प्रत्यय — स्वरापवादोऽयम्। अनुदात्तेतः — आस — आस्ते॑। वस — वस्ते॑। ङित् — षूङ् — सूते॑। शीङ् — शेते॑। अदुपदेशात् — तु॒दतः॑। नु॒दतः॑। पच॑तः। पठ॑तः। अनुबन्धस्यानैकान्तिकत्वात् (परि० ४) अकारान्तोपदेश एव शप्। पच॑मानः। यज॑मानः। यद्यत्र मुक् अकारमात्रस्य स्यात् ,तदा लसार्वधातुकमदुपदेशादनन्तरमिति सिद्धो निघातः। अथाकारान्तस्याङ्गस्य, तथापि लसार्वधातुकानुदात्तत्वे कर्तव्ये बहिरङ्गत्वादसिद्धः इति सिद्धम्। चित्स्वरोऽप्यनेन लसार्वधातुकानुदात्तत्वेन परत्वाद् बाध्यते। तास्यादिभ्य इति किम् ? चि॒नु॒तः। चि॒न्वन्ति॑। ङिदयं श्नुः पूर्वस्य कार्यं प्रति न तु परस्य। उपदेशग्रहणं किम् ? इह च यथा स्यात् — पचा॑वः, पचा॑म इति। इह च मा भूत् — ह॒तः, ह॒थ इति। लग्रहणं किम् ? कतीह प॒च॒मा॒नाः। सार्वधातुकमिति किम् ? शि॒श्ये, शि॒श्याते॑, शि॒श्ियरे। अह्न्विङोरिति किम् ? ह्नु॒ते। यद॑धी॒ते॥
अस्मात्परं लसार्वधातुकमनुदात्तं स्यात् । तासि । कर्ता । कर्तारौ । कर्तारः । प्रत्ययस्वरापवादोऽयम् । अनुदात्तेत् । य आस्ते । ङितः । अभिचष्टे अनृतेभिः (अ॒भिच॑ष्टे॒ अनृ॑तेभिः) । अदुपदेशात् । पुरुभुजा चनस्यतम् (पुरु॑भुजा चन॒स्यत॑म्) । चित्स्वरोऽप्यनेन बाध्यते । वर्धमानं स्वे दमे (वर्ध॑मानं॒ स्वे दमे॑) । तास्यादिभ्यः किम् । अभि वृधे गृणीतः (अ॒भि वृ॒धे गृ॑णी॒तः) । उपदेशग्रहणान्नेह । हतो वत्राण्यार्या (ह॒तो वृत्राण्यार्या॑) । लग्रहणं किम् । कितीह पचमानाः । सार्वधातुकं किम् । शिश्ये । अन्ह्विङोः किम् । ह्नुते । यदधीते ।<!विन्दीन्धिखिदिभ्यो नेति वक्तव्यम् !> (वार्तिकम्) ॥ इन्धे राजा (इ॒न्धे राजा॑) । एतच्च अनुदात्तस्य च यत्र-<{SK3651}> इति सूत्रे भाष्ये स्थितम् ॥