6-1-166 तिसृभ्यः जसः अन्तः उदात्तः
तिसृभ्य उत्तरस्य जसोऽन्त उदात्तो भवति। ति॒स्रस्ति॑ष्ठन्ति। <<उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य>> ८.२.४ इत्यस्यापवादः। शसि <<उदात्तयणो हल्पूर्वात्>> ६.१.१७४ इति सिद्धेऽन्यत्र बहुवचने <<षट्त्रिचतुर्भ्यो हलादिः>> ६.१.१७९ इति विधानात् जसेव लभ्यत इति जस्ग्रहणमुपसमस्तार्थमेक इच्छन्ति। अ॒ति॒ति॒स्रा॑ै इत्यत्र स्वरो मा भूदिति॥
अन्त उदात्तः । तिस्रोद्यावः सवितुः (ति॒स्रोद्यावः॑ सवि॒तुः) ॥
अर्थगतं बहुत्वं शब्दे आरोप्य बहुवचननिर्द्देशः। तिस्न इति। अन्तोदातस्य त्रिशब्दस्य स्थाने तिसृशब्द आदेशः स्थानिवपद्भावादन्तोदातः। ठनुदातौ सुप्पितौऽ इति जसनुदातः, तत्राऽचि परतः ठचि र ऋतःऽ।'जसः' इति किमर्थम् ? तिसृका, स्वार्थे क प्रत्ययः,'तिसृभावे संज्ञायां कनि' इति तिस्रादेशः ? नित्स्व्रोऽत्र बाधको भविष्यति। नाप्रप्ते स्वरान्तरे तिसृस्वर आरभ्यते, स यथैव'सुप्पितावनुदातौ' इत्येतं बाधते एवं नित्स्वरमपि बाधेत ? नैष दोषः; येन नाप्राप्ते इत्येतस्य बाधनं भविष्यति, न वाप्राप्ते ठनुदातौ सुप्पितौऽ इत्येतस्मिन् तिसृस्वर आरभ्यते, तिसृकेत्यत्रापि हि टापा सहैकादेशस्य स्थानिवद्भात्पित्स्वरः प्राप्नोति। अथ वा'मध्ये' पवादाः पूर्वान्विधीन्बाधन्तेऽ इति तिसृस्वरः ठनुदातौ सुप्पितौऽ इत्येतमेव बाधिष्यते, न नित्स्वरम्; बहुवचनविषयत्वाद् द्विवचनैकवचने न स्तः। शसि तु भवितव्यम् ठुदातयणो हल्पूर्वात्ऽ इति। अन्याः सर्वा हलादयो विभक्तयस्तत्र'षट्त्रिचतुर्भ्यो हलादिः' 'झल्युपोतमम्' इत्यनेन स्वरेण भवितव्यम्, तत्रान्तरेणापि जस्ग्रहणं जस एव भविष्यति ? अत आह-जस्ग्रहणमुपसमस्तार्थमिति। समासेऽपि तसृशिब्दात्परो जस् भविष्यति। अतितिस्राविति। अत्र ठतेरकृत्पदेऽ इत्यत्र ठतेर्धातुलोप इति वक्तव्यम्ऽ इति वचनात्प्राप्तमन्तोदातत्वं बाधित्वा विभक्तेरुदातत्वं स्यात्। जस्ग्रहणातु ठुदातस्वरितयोर्यणःऽ इति स्वरितो भवति। अतितिस्र इत्यत्र त्वनेन जस उदातत्वं भवत्येव ॥