निष्प्रवाणिश्च

5-4-160 निष्प्रवाणिः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ कप्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

निष्प्रवाणिरिति नदीलक्षणस्य कपः प्रतिषेधो निपात्यते। प्रोयतेऽस्यामिति प्रवाणी। प्रवयन्ति तयेति वा प्रवाणी। करणसाधनोऽयं ल्युट्। तन्तुवायशलाका भण्यते। निर्गता प्रवाणी अस्य निष्प्रवाणिः पटः। निष्प्रवाणिः कम्बलः। अपनीतशलाकः समाप्तवानः प्रत्यग्रो नवक उच्यते॥

॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य चतुर्थः पादः॥

Siddhanta Kaumudi

Up

कबभावोऽत्र निपात्यते । प्रपूर्वाद्वयतेर्ल्युट् । प्रवाणी तन्तुवायशलाका । निर्गताप्रवाण्यस्य निष्प्रवाणिः पटः । समाप्तवानः, नवः इत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<निष्प्रवाणिश्च>> - निष्प्रवाणिश्च । प्रपूर्वादिति । 'वेञ्तन्तुसंताने' इत्यस्मात्प्रपूर्वात्करणाधिकरणयोश्चे॑त्यधिकरणे ल्युट् । प्रोयते अस्यामिति प्रवाणी ।पूर्वपदात्संज्ञाया॑मिति णत्वम् । समाप्तवान इति । समाप्तं वानं=वानक्रिया यस्येति विग्रहः । अत्र शैषिककबभावो निपात्यते ।

Padamanjari

Up

प्रोयतेऽस्यामिति प्रवाणीति। वेञोऽधिकरणे ल्युट्,'कृत्यचः' इति णत्वम् ॥