देवात्तल्

5-4-27 देवात् तल् प्रत्ययः परः च आद्युदात्तः च तद्धिताः

Sampurna sutra

Up

देवात् तल्

Neelesh Sanskrit Brief

Up

'देव' शब्दात् स्वार्थे 'तल्' प्रत्ययः भवति ।

Kashika

Up

तादर्थ्य इति निवृत्तम्। देवशब्दात् स्वार्थे तल् प्रत्ययो भवति। देव एव देवता॥

Siddhanta Kaumudi

Up

देव एव देवता ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'देव' शब्दात् स्वार्थे 'तल्' प्रत्ययः भवति । <<तलन्तः>> इति लिङ्गानुशासनस्य सूत्रेण तलन्तशब्दाः नित्यस्त्रीलिङ्गाः भवन्ति, अतः तल्-प्रत्ययात् परः टाप्-प्रत्ययः अपि भवति । देवः इत्येव = देव + तल् + टाप् → देवता [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः । <<समर्थानां प्रथमाद्वा>> 4.1.82 अनया महाविभाषया प्रत्ययविधानम् विकल्पेन भवति, अतः 'देव' तथा 'देवता' द्वयोः अपि शब्दयोः प्रयोगः साधु एव ।

Balamanorama

Up

Padamanjari

Up