अवेः कः

5-4-28 अवेः कः प्रत्ययः परः च आद्युदात्तः च तद्धिताः

Sampurna sutra

Up

अवेः कः

Neelesh Sanskrit Brief

Up

'अवि' शब्दात् स्वार्थे 'क' प्रत्ययः भवति ।

Kashika

Up

अविशब्दात् स्वार्थे कः प्रत्ययो भवति। अविरेव अविकः॥

Siddhanta Kaumudi

Up

अविरेवाविकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'अवि' (रत्नम्, diamond) शब्दात् स्वार्थे 'क' प्रत्ययः भवति । अविः इत्येव अविकः । diamond इत्यर्थः । <<समर्थानां प्रथमाद्वा>> 4.1.82 अनया महाविभाषया प्रत्ययविधानम् विकल्पेन भवति, अतः 'अवि' तथा 'अविक' द्वयोः अपि शब्दयोः प्रयोगः साधु एव ।

Balamanorama

Up

<<अवेः कः>> - अवेः कः । अयमपि केवलस्वार्थिकः ।अवयः शैलमेषाऽर्काः॑ इत्यमरः ।

Padamanjari

Up