अतिथेर्ञ्यः

5-4-26 अतिथेः ञ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः तादर्थ्ये

Sampurna sutra

Up

अतिथेः तादरथ्ये ञ्यः

Neelesh Sanskrit Brief

Up

चतुर्थीसमर्थात् 'अतिथि'शब्दात् प्रथमार्थे ञ्य प्रत्ययः भवति ।

Kashika

Up

तादर्थ्य इत्येव। अतिथिशब्दात् चतुर्थीसमर्थात् तादर्थ्येऽभिधेये ञ्यः प्रत्ययो भवति। अतिथय इदम् आतिथ्यम्॥

Siddhanta Kaumudi

Up

तादर्थ्ये इत्येव । अतिथय इदमातिथ्यम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'अतिथये इदम्' अस्मिन् अर्थे चतुर्थीसमर्थात् 'अतिथि' शब्दात् ञ्य-प्रत्ययः भवति । अतिथ्यर्थम् / अतिथये इदम् = अतिथि + ञ्य → आतिथि + य [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → आतिथ् + य [<<यस्येति च>> 6.4.148 इति इकारलोपः] → आतिथ्य । अतिथे इदमातिथ्यम् । A warm welcome extended to a guest is called आतिथ्य । स्मर्तव्यम् - यद्यपि इदम् सूत्रम् स्वार्थिकप्रकरणे विद्यते, तथाप्यत्र प्रत्ययः स्वार्थे न विधीयते, अपितु चतुर्थीसमर्थात् 'इदम्' अस्मिन् अर्थे विधीयते ।

Balamanorama

Up

<<अतिथेर्ञ्यः>> - अतिथेर्ञ्यः । तादर्थ्ये इत्येवेति । अतिथये इदमित्यर्थे अतिथिशब्दाच्चतुथ्र्यन्ताण्ण्यः लिङ्गातिक्रमात्स्त्रीत्वम् ।

Padamanjari

Up