5-4-10 स्थानान्तात् विभाषा सस्थानेन इति चेत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः छ
स्थानान्तात् 'सस्थानेन चेत्' इति विभाषा छः
यस्य शब्दस्य अन्ते 'स्थान' इति विद्यते, तस्मात् 'सस्थानेन तुल्यमस्ति चेत्' अस्मिन् अर्थे छ-प्रत्ययः विकल्पेन भवति ।
स्थानान्तात् प्रातिपदिकाद् विभाषा छः प्रत्ययो भवति, सस्थानेन चेत् स्थानान्तमर्थवद् भवति। सस्थान इति तुल्य उच्यते, समानं स्थानमस्येति कृत्वा। पित्रा तुल्यः पितृस्थानीयः, पितृस्थानः। मातृस्थानीयः, मातृस्थानः। राजस्थानीयः, राजस्थानः। सस्थानेनेति किम् ? गोस्थानम्। अश्वस्थानम्। इतिकरणो विवक्षार्थः। तेन बहुव्रीहिः सस्थानशब्दार्थमुपस्थापयति, न तत्पुरुषः। चेच्छब्दः संबन्धार्थः। द्वयोर्विभाषयोर्मध्ये नित्या विधय इति पूर्वत्र नित्यः प्रत्ययः॥
सस्थानेन तुल्येन चेत् स्थानान्तमर्थवदित्यर्थः । पितृस्थानीयः । पितृस्थानः । सस्थानेन किम् । गोः स्थानम् ॥
यस्य शब्दस्य अन्ते 'स्थान' इति विद्यते (यथा, 'पितृस्थान', 'मातृस्थान', 'गुरुस्थान' आदयः) तस्मात् शब्दात् 'सस्थानेन तुल्यमस्ति चेत्' (= समानम् स्थानमस्ति चेत्, equivalent in position to) अस्मिन् सन्दर्भे स्वार्थे 'छ'-प्रत्ययः विकल्पेन विधीयते । उदाहरणानि एतानि - 1. पितृस्थानम् इव स्थानम् यस्य [<!सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः!> अनेन वार्त्तिकेन उत्तरपदलोपबहुव्रीहिः समासः ] = पितृस्थान + छ [वर्तमानसूत्रेण छ-प्रत्ययः] → पितृस्थान + ईय [<<आयनेयीनीयीयः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ईय्-आदेशः] → पितृस्थान् + ईय [<<यस्येति च>> 6.4.148 इति अकारलोपः] → पितृस्थानीयः अयम् छ-प्रत्ययः विकल्पेन भवति, अतः 'पित्रा तुल्यः = पितृस्थानः' इति अपि साधु प्रयोगः । एवमेव - 2. मातृस्थानम् इव स्थानम् यस्य मातृस्थानीया मातृस्थाना वा । 3. गुरुस्थानम् इव स्थानम् यस्य गुरुस्थानीयः गुरुस्थानः वा । 4. राजस्थानम् इव स्थानम् यस्य राजस्थानीयः राजस्थानः वा । ज्ञातव्यम् - 1. यत्र 'सस्थानस्य' निर्देशः न विद्यते, तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - 'अश्वस्य स्थानमश्वस्थानम्' (location / place of horse) अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति । 2. अस्मिन् सूत्रे निर्दिष्टः 'इति' अयम् शब्दः 'सस्थान' शब्दस्य अर्थम् स्पष्टीकरोति । वस्तुतः तु 'सस्थान' शब्दस्य अर्थद्वयम् विद्यते - अ) 'समानस्य स्थानम्' इति तत्पुरुषसमासः । The position of someone who is equivalent - इति आशयः । आ) 'समानम् स्थानम् यस्य सः' इति बहुव्रीहिसमासः । The person whose position is equivalent - इति आशयः । एताभ्याम् केवलम् बहुव्रीहिसमासेन निर्मितः 'सस्थान' शब्दः एव वर्तमानसूत्रस्य सन्दर्भे प्रयोक्तव्यः - एतत् स्पष्टीकर्तुमत्र 'इति' शब्द' स्वीक्रियते । अतः 'पित्रा तुल्यम् स्थानम्' इति निर्देशार्थम् वर्तमानसूत्रस्य प्रयोगः न भवति । 3. अस्मिन् सूत्रे प्रयुक्तः 'चेत्' इति शब्दः 'सम्बन्धम्' दर्शयति । इत्युक्ते, 'पितृस्थान' शब्दस्य मूलः सम्बन्धः पित्रा सह अस्ति, न हि स्थानेन सह - इति अनेन शब्देन स्पष्टीभवति । 4. वस्तुतः <<विभाषा अञ्चेरदिक्स्त्रियाम्>> 5.4.8 इत्यस्मिन् सूत्रे अपि 'विभाषा' शब्दः विद्यते एव । परन्तु वर्तमानसूत्रे अयम् शब्दः पुनः स्वीकृतः अस्ति । अस्य स्पष्टीकरणार्थम् काशिकाकारः वदति - द्व्योः विभाषयोः नित्याः विधयः इति पूर्वत्र नित्यविधयः। । इत्युक्ते, द्वयोः सूत्रयोः मध्ये विद्यमानेन <<जात्यन्नाच्छ बन्धुनि>> 5.4.9 अनेन सूत्रेण नित्यमेव प्रत्ययविधानम् क्रियते, न हि विकल्पेन - इति स्पष्टीकर्तुम् एव अत्र पुनः 'विभाषा' शब्दः स्वीकृतः अस्ति । स्मर्तव्यम् - वस्तुतः इदम् सूत्रम् <<समर्थानां प्रथमात् वा>> 4.1.82 इत्यत्र निर्दिष्टायाः महाविभाषायाः अधिकारे एव पाठ्यते । परन्तु तथापि अस्मिन् सूत्रे 'विभाषा' इति निर्दिष्टमस्ति । अस्य स्पष्टीकरणार्थम् व्याख्यानेषु उच्यते - विभाषाग्रहणात् केचन स्वार्थिका नित्याः प्रत्ययाः स्मर्यन्ते । इत्युक्ते, अत्र विभाषाग्रहणेन एतत् स्पष्टीभवति यत् स्वार्थिकप्रकरणे केचन प्रत्ययाः नित्यमेव कर्तव्या, न हि विकल्पेन । अतएव अग्रे प्रत्येकस्मिन् सूत्रे 'प्रत्ययविधानम् नित्यम् भवति उत विकल्पेन' तत् स्पष्टरूपेण निर्दिष्टमस्ति ।
<<स्थानान्ताद्विभाषा सस्थानेनेति चेत्>> - स्थानान्तात् ।संस्थानेने॑त्यस्य विवरणंतुल्येनेति । इतिशब्दादर्थवदिति लभ्यते । तुल्यरूपेणाऽर्थेन यदि स्थानान्तं शब्दस्वरूपमर्थवद्भवति, तदा स्थानान्ताच्छो वा स्यादित्यर्थः । तुल्यरूपार्थे वर्तमानात्स्थानान्ताच्छोवा स्यादिति यावत् । पितृस्थानीय इति । स्थानं-पूज्यत्वादिपदम् । पितृस्थानमिव स्थानं यस्येति बहुव्रीहिः । पितृनिष्ठपूज्यत्वादितुल्यपूज्यत्वादिमानित्यर्थः । गोस्थानमिति । गवां निवास इत्यर्थः । अत्र तुल्यत्वाऽप्रतीतेर्न च्छः ।किमेत्तिङव्यये॑त्युत्तरसूत्रं प्रसङ्गात्पूर्वमेव व्याख्यातम् ।अमु च च्छन्दसी॑ति तु वैदिकप्रक्रियायां व्याख्यास्यते ।
सस्थानेन चेदिति। करणे एषा तृतीया, सस्थानेन सस्थानशब्दवाच्येनार्थेन तुल्यपर्यायेण स्थानान्तं यद्यर्थवद्भवति, एवं प्रत्ययो भति, नान्यतेत्यर्थ। सस्थान इति तुल्य उच्यत इति। स्तानत इति शेषः। स्थानमुप्राप्तिः, सम्बन्धविशेषः, पदमिति यस्य प्रसिद्धैः। कथं पुनः सस्थानशब्देन तुल्य उच्यते? इत्याह - सामानं स्थानमस्येति। यस्य समानं स्थानं स सस्थान इत्युच्यते यश्चैवंविधः स यदपक्षया तस्य समानं स्थानं तेन तुल्यो भवति, तत्र शब्दभेदेऽपि ????तुवृतेन सस्थानशब्दस्य तुल्यो वाच्यो भवति। सभावः पुनरत्र'ज्योतिर्जनपद' इत्यादि सूत्रेण। पितृस्तानीय इति। पितुरिव स्थानमस्येति बहुव्रीहिः। गोस्थानमिति। तिष्ठत्यस्मिन्नति स्थानं देशः न तु तत्पुरुष इति। समानं च तत्स्थानं चेत्येवंरूपस्तत्पुरुषः। स्थानशब्दो नार्थमुपस्थापयति। यद्यौपस्थापयेत्, तुल्यं च तत्स्थानं च तुल्यस्थानमित्यादेः कर्मधारयादपि प्रत्ययः स्यात्। अथ बहुव्रीहेस्तुल्यस्थानशब्दात्सस्थानशब्दाद्वाऽयं प्रत्ययः करमान्न भवति? कः पुनराहः-न भवतीति! नेष्यते इति करणादेव तु न भविष्यति। चेच्छब्दः सम्बन्धार्थ इति। चेच्छब्दे सति विभक्तिविपरिणानेनैध्याहरेण वा वाक्यपर्यसानेन च सम्बन्धो भवति। असति तु तस्मिन्पञ्चम्यन्तेन तृतीयान्तस्य सम्बन्धोऽनुपपन्नः स्यात् ॥