स एषां ग्रामणीः

5-2-78 स एषां ग्रामणीः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा कन्

Sampurna sutra

Up

index: 5.2.78 sutra: स एषां ग्रामणीः


'सः एषाम् ग्रामणीः ' (इति) कन्

Neelesh Sanskrit Brief

Up

index: 5.2.78 sutra: स एषां ग्रामणीः


'ग्रामणीः' इत्यस्य विशेष्यरूपेण प्रयुक्तात् प्रथमासमर्थात् 'एषाम्' इत्यस्मिन् अर्थे कन् प्रत्ययः भवति ।

Kashika

Up

index: 5.2.78 sutra: स एषां ग्रामणीः


स इति प्रथमासमर्थातेषाम् इति षष्ठ्यर्थे कन् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं ग्रामणीश्चेत् स भवति। ग्रामणीः प्रधानः, मुख्यः इत्यर्थः। देवदत्तः ग्रामणीः एषाम् देवदत्तकाः। ब्रह्मदत्तकाः। ग्रामणीः इति किम्? देवदत्तः शत्रुरेषाम्।

Siddhanta Kaumudi

Up

index: 5.2.78 sutra: स एषां ग्रामणीः


देवदत्तोमुख्यो येषां ते देवदत्तकाः । त्वत्काः । मत्काः ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.78 sutra: स एषां ग्रामणीः


'ग्रामणीः' इत्युक्ते 'ग्रामस्य प्रमुखः / प्रधानः' (The head of a village). कस्यचन ग्रामस्य जनानाम् वर्णनम् तेषाम् प्रमुखस्य नाम्ना कर्तुम् वर्तमानसूत्रस्य प्रयोगः भवति । यथा, 'एतेषाम् सर्वेषाम् जनानाम् ग्रामणीः देवदत्तः अस्ति' इत्यत्र सर्वेषाम् जनानाम् निर्देशार्थम् 'देवदत्त'शब्दात् कन् प्रत्ययः भवति । देवदत्त + कन् → देवदत्तक । देवदत्तः ग्रामणीः येषाम् ते देवदत्तकाः । तथैव -

  1. ब्रह्मदत्तः ग्रामणीः येषाम् ते ब्रह्मदत्तकाः ।

  2. त्वम् ग्रामणीः असि येषाम् ते त्वत्काः । प्रक्रिया इयम् -

युष्मद् + क

→ त्वद् + क [प्रत्ययोत्तरपदयोश्च 7.2.98 इत्यनेन 'युष्म' इत्यस्य 'त्व' आदेशः]

→ त्वत् + क [खरि च 8.4.55 इति चर्त्वम्]

→ त्वत्क ।

  1. अहम् ग्रामणीः अस्मि येषाम् ते मत्काः । प्रक्रिया इयम् -

अस्मद् + क

→ मद् + क [प्रत्ययोत्तरपदयोश्च 7.2.98 इत्यनेन 'युष्म' इत्यस्य 'त्व' आदेशः]

→ मत् + क [खरि च 8.4.55 इति चर्त्वम्]

→ मत्क ।

Balamanorama

Up

index: 5.2.78 sutra: स एषां ग्रामणीः


स एषां ग्रामणीः - स एषा ग्रामणीः । ग्रामणीविशेषवाचकाच्छब्दात्प्रथमान्तादस्येत्यर्थे कन्स्यादित्यर्थः । देवदत्तो मुख्य एषामिति । एतेन ग्रामणीशब्दो मुख्यपर्याय इति सूचितम् ।ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु॑ इत्यमरः । त्वत्काः मत्का इति । त्वमहं वा मुख्य एषामिति विग्रहः ।प्रत्ययोत्तरपदयोश्चे॑ति त्वमौ शृङ्खलमस्य । करभ इति । षष्ठर्थे सप्तमी ।बन्धन॑मिति करणे ल्युट् । अस्य करभस्य शृङ्खलं बन्धनमिति विग्रहे बन्धनविशेषणाच्छृङ्खलशब्दात्प्रथमान्तादस्य करभस्येत्यर्थे कन्स्यादित्यर्थः । शृङ्खलक इति । शृङ्खलेन बद्ध इति यावत् । करभः=बाल उष्ट्रः ।

Padamanjari

Up

index: 5.2.78 sutra: स एषां ग्रामणीः


इह त्वत्को मत्को वा विजय इत्यादावनेन कन्। त्वं ग्रामणीरस्य त्वत्कः, अहं ग्रामणीरस्य मत्कः। प्रायेण त्विदमर्थमात्रे प्रयुज्यते ॥