5-2-79 शृङ्खलम् अस्य बन्धनं करभे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा कन्
'शृङ्खलम् बन्धनमस्य' (इति) करभे कन्
'अस्य बन्धनम्' अस्मिन् अर्थे करभस्य निर्देशं कर्तुम् 'शृङ्खल' शब्दात् प्रथमासमर्थात् कन्-प्रत्ययः भवति ।
शृङ्खलशब्दात् प्रथमासमर्थादस्येति षष्ठ्यर्थे कन् प्रत्ययो भवति। यत् तत् प्रथमासमर्थं बन्धनं चेत् तद् भवति, यत् तदस्येति निर्दिष्टं करभश्चेत् स भवति। शृङ्खलं बन्धनमस्य करभस्य शृङ्खलकः। उष्ट्राणां बालकाः करभाः। तेषां काष्ठमयं पाशकं पादे व्यतिषज्यते, तदुच्यते शृङ्खलमिति। यद्यपि रज्ज्वादिकमपि तत्रास्ति तथापि शृङ्खलमस्यास्वतन्त्रीकरणे भवति साधनमिति बन्धनमित्युच्यते॥
शृङ्खलकः करभः ॥
'करभः' इत्युक्ते उष्ट्रस्य शिशुः (baby camel) । यदि कश्चम करभः शृङ्खलेन बद्धः अस्ति (A baby camel which has been tied with a chain / wooden rod - most commonly around the feet region - so that it cannot move freely), तर्हि तस्य निर्देशार्थम् 'शृङ्खल'शब्दात् 'कन्' प्रत्ययः भवति । शृङ्खल + कन् → शृङ्खलक । शृङ्खलम् बन्धनमस्य करभस्य सः शृङ्खलकः करभः । स्मर्तव्यम् - गजस्य शुण्डः अपि 'करभः' नाम्ना ज्ञायते । परन्तु तस्य निर्देशः अस्मिन् सूत्रे न कृतः अस्ति । अत्र केवलमुष्ट्रस्य शिशूनाम् विषये एव उक्तमस्ति ।
ननु न शृङ्खलमात्रेण करभो बद्धयते, किं तहि ? रज्ज्वा, कीलेन च, तस्माच्छ्ःअङ्कलमस्य बन्धनमिति न युक्तं वक्तुम्, एवं तु वक्तव्यम् - ठ्शृङ्खलवदस्य सम्बनधनं करभे कुक्च मतोः इति ? तत्राह - यद्यपीति। अस्तु रज्ज्वादेरपि करणत्वम्, शृङ्खलस्यापि करणत्वमस्त्वेव; तदन्तरेण बन्धनस्यानिर्वृतेरित्यर्थः ॥