5-2-71 ब्राह्मणकोष्णिके सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा कन्
संज्ञायाम् 'ब्राह्मणक-उष्णिके' निपात्येते ।
संज्ञायाः विषये 'ब्राह्मणक' तथा 'उष्णिका' एतौ द्वौ शब्दौ निपात्येते ।
ब्राह्मणक उष्णिक इत्येतौ शब्दौ निपात्येते कन्प्रत्ययान्तौ संज्ञायां विषये। ब्राह्मणको देशः। उष्णिका यवागूः। यत्रायुधजीविनो ब्राह्मणाः सन्ति, तस्य ब्राह्मणक इति संज्ञा। अल्पान्ना यवागूरुष्णिकेत्युच्यते॥
आयुधजीविनो ब्राह्मणा यस्मिन्देशे स ब्राह्मणकः । अल्पमन्नं यस्यां सा उष्णिका यवागूः । अन्नशब्दस्य उष्णादेशो निपात्यते ॥
अनेन सूत्रेण 'ब्राह्मणक' तथा 'उष्णिका' एतयोः शब्दयोः विशिष्टेषु अर्थेषु निपातनम् क्रियते । क्रमेण पश्यामः - 1. 'ब्राह्मणक' = इयम् प्रदेशस्य संज्ञा । यस्मिन् देशे (= प्रदेशे / क्षेत्रे) आयुधजीविनः ब्राह्मणाः (= ते ब्राह्मणाः ये शस्त्रप्रयोगेण जीवनम् चालयति) बाहुल्येन निवसन्ति, सः 'ब्राह्मणकः' देशः । युद्धकार्ये कुशलाः निमग्नाः वा ब्राह्मणाः सन्ति यस्मिन् देशे, सः ब्राह्मणकः देशः । ( अत्र 'देश' शब्दस्य अर्थः 'प्रदेश' / स्थान' इति अस्ति ।) 2. 'उष्णिका' = इयम् 'यवागूः' (= rice-gruel / a dish made with rice, water and a few spices) इत्यस्य संज्ञा । यस्याम् यवाग्वामन्नस्य मात्रा न्यूना अस्ति, तथा च जलस्य मात्रा अधिका अस्ति ( rice-gruel that contains very little rice and a lot of water) तस्याः निर्देशः 'उष्णिका' इत्यनेन क्रियते । स्मर्तव्यम् - एतौ द्वौ अपि 'कन्' प्रत्ययान्तनिपातनौ स्तः - [अ] ब्राह्मण + कन् → ब्राह्मणक । [आ] अल्पान्न + कन् → उष्णिका । 'अल्पान्न' (= अल्प + अन्न) शब्दस्य 'उष्णि' इति आदेशः निपात्यते । अग्रे <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्ययं कृत्वा रूपं सिद्ध्यति ।
<<ब्राह्मणकोष्णिके संज्ञायाम्>> - ब्राआहृणकोष्णिके । आयुधजीविविषयब्राआहृणशब्दात्प्रथमान्तादस्मिन्नित्यर्थे कन्निपात्यत इत्यर्थः । अल्पान्नशब्दस्येति । अल्पान्नशब्दात्प्रथमान्तादस्मिन्नित्यर्थे कन्प्रत्ययः, प्रकृतेरुष्णादेशश्च निपात्यत इत्यर्थः ।
कन्प्रत्ययान्तौ निपात्येते इति। किं पुनरत्र निपात्यते, ब्राह्णणशबप्दादायुधजीव्युपाधिकात्प्रथमान्तात्सप्तम्यर्थे कन्प्रत्ययः, अन्नशब्दादल्पत्वोपाधिकात्सप्तम्यर्थ एव कन्प्रत्ययः, अन्नशब्दस्योष्णस्योष्णयादेशः ? तदाहयत्रायुधजीविन इत्यादि ॥