शीतोष्णाभ्यां कारिणि

5-2-72 शीतोष्णाभ्यां कारिणि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा कन्

Sampurna sutra

Up

index: 5.2.72 sutra: शीतोष्णाभ्यां कारिणि


'कारिणि' (इति) शीत-उष्णाभ्याम् कन्

Neelesh Sanskrit Brief

Up

index: 5.2.72 sutra: शीतोष्णाभ्यां कारिणि


द्वितीयासमर्थात् 'शीत' तथा 'उष्ण' शब्दाभ्याम् 'कारी' अस्मिन् अर्थे कन्-प्रत्ययः भवति ।

Kashika

Up

index: 5.2.72 sutra: शीतोष्णाभ्यां कारिणि


शीतोष्णाशब्दाभ्यां कारिण्यभिधेये कन् प्रत्ययो भवति। क्रियाविशेषणाद् द्वितीयासमर्थादयं प्रत्ययः। शीतं करोति शीतकः। अलसो, जड उच्यते। उष्णं करोति उष्णकः। शीघ्रकारी, दक्ष उच्यते।

Siddhanta Kaumudi

Up

index: 5.2.72 sutra: शीतोष्णाभ्यां कारिणि


करोतीति शीतकोऽलसः । उष्णं करोतीति उष्णकः शीघ्रकारी ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.72 sutra: शीतोष्णाभ्यां कारिणि


'कारी' इति 'कारिन्' इत्यस्य प्रथमैकवचनम् । करोति सः कारी । अस्मिन् अर्थे द्वितीयासमर्थात् 'शीत' तथा 'उष्ण' शब्दाभ्याम् 'कन्' प्रत्ययः भवति । क्रमेण पश्यामः -

  1. शीत = अस्य शब्दस्य अर्थः अत्र 'मन्दता / शैथिल्यम् / आलस्यम्' इति अस्ति , न हि 'शीतल' इति । यः मन्दरूपेण कार्यम् करोति, अलसः (lazy) अस्तिः तस्य निर्देशार्थम् 'शीत'शब्दात् कन्-प्रत्ययः भवति । शीतं करोति शीतकः मन्दः ।

  2. उष्ण = अस्य शब्दस्य अर्थः अत्र 'शीघ्रता / दक्षता' इति अस्ति, न हि 'उष्णता' इति । यः शीघ्रतया / दक्षतया कार्यम् करोति, तस्य निर्देशार्थम् 'उष्ण'शब्दात् कन्-प्रत्ययः भवति । उष्णं करोति उष्णकः दक्षः ।

स्मर्तव्यम् - अस्मिन् सूत्रे 'कारी' इति शब्दः णिनि-प्रत्ययान्तशब्दः अस्ति । अस्मिन् शब्दे परे कर्मणि द्वितीया 2.3.2 इत्यनेन द्वितीया विभक्तिः प्रयुज्यते । अतएव सूत्रे यद्यपि द्वितीयासामर्थ्यम् स्पष्टरूपेण न दीयते, तथाप्यत्र द्वितीयासामर्थ्यम् एव स्वीक्रियते ।

Balamanorama

Up

index: 5.2.72 sutra: शीतोष्णाभ्यां कारिणि


शीतोष्णाभ्यां कारिणि - शीतोष्णाभ्यां शीतमिव शीतं मन्दमित्यर्थः । उष्णमिव उष्णम् । शीघ्रमित्यर्थः । आभ्यां क्रियाविशेषणाभ्यां द्वितीयान्ताभ्यां कन्स्यादित्यर्थः । य आशु कर्तव्यानर्थाश्चिरेण करोति स शीतक उच्यते, यस्तु अनाशु कर्तव्यानाओव करोति स उष्णक उच्यत इति भाष्ये । संज्ञायामित्यनुवृत्तेरयमर्थो लभ्यत इति कैयटः । तदाह — शीतकोऽलस इति । उष्णकः शीघ्रकारीति च ।

Padamanjari

Up

index: 5.2.72 sutra: शीतोष्णाभ्यां कारिणि


शितं करोति स शीतकः, यश्चोष्णं करोति स उष्णकः। किं चातः? तुषारे आदित्ये च प्राप्नेति, शीतोणशब्दयोहि स्पर्शविसेषो मुख्योऽर्थेः, तं च ताववश्यं कुरुत एवेति मुख्यार्थग्रहे दोषं दृष्ट्वा गौणार्थयोर्ग्रहणमिति दर्शयन्नाह - क्रियाविशेषणादिति। तत्र शीतोष्णशब्दयोरुपमानाद् वृत्तिः - शीतमिव शीतम्, मन्दकरणमित्यर्थः। शीतं हि मन्दतायुक्तम्; सति शीते कार्यकरणे पाटवाभावात्। एवमुष्णमिवोष्णमुपटुअकरम्, शीघ्रकरणमित्यरथः। एवं क्रियाविशेषणाभ्यां प्रत्ययः। द्वितीयासमर्थादिति।'कृद्योगलक्षणा तु षष्ठी क्रियाविशेषणान्त भवति' इति प्रागेवोक्तम्। मुख्यार्थवृत्तिभ्यां तु प्रत्ययो न भवति; अनभिधनात् ॥