5-2-134 वर्णात् ब्रह्मचारिणि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप् इनिः
'तत् अस्य, अस्मिन् अस्तीति' (इति) वर्णात् ब्रह्मचारिणि इनि
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'वर्ण' शब्दात् ब्रह्मचारिणः निर्देशं कर्तुम् 'इनि' प्रत्ययः भवति ।
वर्णशब्दादिनिः प्रत्ययो भवति मत्वर्थे, समुदायेन चेद् ब्रह्मचारी भण्यते। ब्रह्मचारीति त्रैवर्णिकोऽभिप्रेतः। स हि विद्याग्रहणार्थमुपनीतो ब्रह्म चरति, नियममासेवत इत्यर्थः। वर्णी, वर्णिनौ, वर्णिनः। ब्रह्मचारिणीति किम्? वर्णवान्। ब्राह्मणादयस्त्रयो वर्णा वर्णिन उच्यन्ते॥
वर्णी ॥
अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण 'वर्ण' (cast) शब्दात् 'ब्रह्मचारिणः' निर्देशं कर्तुम् वर्तमानसूत्रेण 'इनि' प्रत्ययः भवति । वर्ण + इनि → वर्णिन् । अस्य अर्थः अयम् - 'ब्रह्मचारी' इत्युक्ते यः ब्रह्म चरति (= नियमान् आचरति) सः । चतुर्वर्णेभ्यः 'ब्राह्मण', 'क्षत्रिय' तथा 'वैश्य' एतेषु त्रिषु वर्णेषु उपनयनसंस्कारः भवतीति मन्यते । अस्मात् संस्कारात् अनन्तरम् छात्रः केषाञ्चन नियमानाम् पालनं कृत्वा वेदाध्ययनम् कर्तुम् प्रारभते । अस्यैव निर्देशः 'अयम् ब्रह्मचारी अस्ति / ब्रह्मचर्यस्य पालनम् करोति' इत्यनेन क्रियते । अस्य ब्रह्मचारिणः निर्देशार्थयम् 'वर्ण' शब्दात् 'इनि' प्रत्ययः भवति । यथा - वर्णः अस्य सः वर्णी ब्रह्मचारी ब्राह्मणः क्षत्रियः वैश्यः वा । स्मर्तव्यम् - 'वर्ण' शब्दात् 'ब्रह्मचारी' अर्थे गम्यमाने <<अत इनिठनौ>> 5.2.115 इत्यनेन मतुँप्, इनि तथा ठन् प्रत्ययेषु प्राप्तेषु वर्तमानसूत्रेण केवलम् 'इनि' प्रत्ययस्यैव विधानं भवति, 'मतुँप्' तथा 'ठन्' प्रत्ययौ निषिध्येते । परन्तु यत्र 'ब्रह्मचारी' इति निर्देशः न अपेक्षते तत्र तु <<अत इनिठनौ>> 5.2.115 इत्यनेन मतुबादयः प्रत्ययाः भवन्ति । यथा - वर्णः अस्य सः वर्णवान् ब्राह्मणः (A brahmin who is proud of his cast इत्याशयः) ।
<<वर्णाद्ब्रह्मचारिणि>> - वर्णाद्ब्राहृचारिणि । वर्णशब्दान्मत्वर्थे इनिरेव, समुदायेन ब्राहृचारिणि गम्ये इत्यर्थः । वर्णीति । वर्णः=ब्राआहृणादितत्तद्वर्णोचितवसन्तादिकाले उपनयनम्, सोऽस्यास्तीति विग्रहः ।
ब्रह्मचारीति त्रैवर्णिकोऽभिमत इति। यद्यपि गुरुकुलवासिनि प्रथमाश्रमे ब्रह्मचारिशब्दः प्रसिद्धः, तथापीह लक्ष्यानुरोधात्रैवर्णिकमात्रमभिमतः, न त्वाश्रम इत्यर्थः, तस्य कादाचित्कं व्रह्मचर्ययोगं दर्शयति। स हीति। ब्रह्म चरतीति ब्रह्मचारी, ब्रह्मौवेदः। इह तु तदध्ययनार्थो नियमविशेषोऽभिमत इत्याह - नियममिति। तत्र ब्रह्मचारीति'व्रते' इति णिनिः। ब्रह्मचारिशब्दस्य मुख्यार्थपरित्यागेन त्रैवर्णिकमात्रपरत्वे कारणमाह - ब्राह्मणादयस्त्रयो वर्णा इति ॥