हस्ताज्जातौ

5-2-133 हस्तात् जातौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप् इनिः

Sampurna sutra

Up

'तत् अस्य, अस्मिन् अस्तीति' (इति) हस्तात् जातौ इनिः

Neelesh Sanskrit Brief

Up

'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'हस्त'शब्दात् जातेः निर्देशार्थम् इनि-प्रत्ययः भवति ।

Kashika

Up

हस्तशब्दादिनिः प्रत्ययो नियम्यते मत्वर्थे, समुदायेन चेज् जातिरभिधीयते। हस्तोऽस्यास्तीति हस्ती, हस्तिनौ, हस्तिनः। जाताविति किम् ? हस्तवान् पुरुषः॥

Siddhanta Kaumudi

Up

हस्ती । जातौ किम् । हस्तवान्पुरुषः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण 'हस्त'( = trunk) शब्दात् जातिनिर्देशे (to indicate category of animals) 'इनि' प्रत्ययः भवति । हस्तः अस्ति यस्य सः 'हस्ती' (हस्तिन् इति प्रातिपदिकम्) ।The species of animals that contain trunk - इत्याशयः । विशेषः - 'अस्य अस्ति' अस्मिन् अर्थे 'हस्त'शब्दात् <<अत इनिठनौ>> 5.2.115 इत्यनेन मतुँप्, इनि, तथा ठन् प्रत्ययेषु प्राप्तेषु जातिनिर्देशे गम्यमाने वर्तमानसूत्रेण पुनः 'इनि' प्रत्ययः विधीयते, येन 'मतुँप्' तथा 'ठन्' प्रत्यययोः निषेधः भवति । परन्तु यदि जातिनिर्देशः न भवति, तर्हि तु अस्य सूत्रस्य प्रयोगः न क्रियते, अतः <<अत इनिठनौ>> 5.2.115 इत्यनेन मतुँप्, इनि, तथा ठन् एते सर्वे प्रत्ययाः भवितुमर्हन्ति । यथा - हस्तौ विद्यते अस्य सः हस्तवान् पुरुषः, हस्ती पुरुषः, हस्तिकः पुरूषः ।

Balamanorama

Up

<<हस्ताज्जातौ>> - हस्ताज्जातौ । हस्तान्मत्वर्थे इनिरेव, समुदायेन जातिविशेषे गम्ये इत्यर्थः ।

Padamanjari

Up

इनिः प्रत्ययो नियम्यते इति। मत्वर्थसम्भवमात्रेणात्र प्रकरमे नियमवाचोयुक्तिः। परमार्थतस्तु विधिरयम्, कथम् ? गजशब्दवज्जातिशब्दोऽयम्, नात्र मत्वर्थगन्धोऽस्ति। तथा च विहस्तेऽपि गजे हस्तीति भवति; जातिसद्भावात्। हस्तसम्बन्धविवक्षायां च हस्तिन्यपि मतुब्भवति - हस्तवान्, हस्ती; हस्तवान्पुरुष इतिवत्। एवमुतरेष्वपि योगेषु द्रष्टव्यम्। हस्तग्रहणं चोपलक्षणार्थं मन्यते, तेन दन्ती, विषाणी, केसरीत्यादि सिद्धं भवति ॥