वातातिसाराभ्यां कुक् च

5-2-129 वातातीसाराभ्यां कुक् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप् इनिः

Sampurna sutra

Up

index: 5.2.129 sutra: वातातिसाराभ्यां कुक् च


'अस्य, अस्मिन् अस्तीति' (इति) वात-अतिसाराभ्याम् इनि, कुक् च

Neelesh Sanskrit Brief

Up

index: 5.2.129 sutra: वातातिसाराभ्यां कुक् च


'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयो' 'वात' तथा 'अतिसार' शब्दाभ्याम् प्रथमासमर्थाभ्याम् 'इनि' प्रत्ययः भवति, तथा च प्रक्रियायामङ्गस्य 'कुक्' आगमः अपि विधीयते ।

Kashika

Up

index: 5.2.129 sutra: वातातिसाराभ्यां कुक् च


वातातिसारशब्दाभ्यां इनिः प्रत्ययो भवति, तत्संनियोगेन च तयोः कुगागमो भवति। वातातिसारयोरुपतापत्वात् पूर्वेण एव सिद्धे प्रत्यये कुगर्थम् एव इदं वचनम्। वातकी। अतिसारकी। पिशाचाच् चेति वक्तव्यम्। पिशाचकी वैश्रवणः। रोगे च अयम् इष्यते। इह न भवति, वातवती गुहा।

Siddhanta Kaumudi

Up

index: 5.2.129 sutra: वातातिसाराभ्यां कुक् च


चादिनिः । वतकी । अतीसारकी । रोगे चायमिष्यते ॥ नेह, वातवती गुहा ।<!पिशाचाच्च !> (वार्तिकम्) ॥ पिशाचकी ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.129 sutra: वातातिसाराभ्यां कुक् च


'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण रोगवाचिभ्यः शब्देभ्यः द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः 5.2.128 इत्यनेन इनि-प्रत्ययः विधीयते । अस्मिन्नेव 'इनि' प्रत्यये परे 'वात' (gas) तथा 'अतिसार' (diarrhoea) एतयोः अङ्गस्य वर्तमानसूत्रेण 'कुक्' इति आगमः भवति । यथा -

अ) वातः अस्य अस्ति सः

= वात + कुक् + इन् [वर्तमानसूत्रेण इन्-प्रत्ययः, अङ्गस्य च कुक्-आगमः]

→ वात + क् + इन् ['कुक्' इत्यत्र ककारः इत्संज्ञकः, उकारः उच्चारणार्थः । द्वयोः लोपः भवति ।]

→ वातकिन्

वातः अस्य अस्ति सः वातकी ।

आ) अतिसारः अस्य अस्ति सः अतिसारकी ।

विशेषः - व्याख्यानेषु अत्र 'रोगे च अयम् इष्यते' इति उच्यते । इत्युक्ते, 'रोगः' अस्मिन् अर्थे प्रयुज्यमानौ यौ वात-अतिसार-शब्दौ, तयोर्विषये एव अस्य सूत्रस्य प्रसक्तिः अस्ति, अन्येषां विषये न । यथा - 'वातः विद्यते यस्याम् गुहायाम्' अत्र वर्तमानसूत्रस्य प्रयोगः न भवति, केवलम् औत्सर्गिकः मतुँप्-प्रत्ययः एव विधीयते, येन 'वातवती गुहा' इति रूपं सिद्ध्यति ।

अत्र एकं वार्त्तिकम् ज्ञातव्यम् - <!पिशाचाच्च!> । इत्युक्ते, 'पिशाच'शब्दात् अपि अनेन सूत्रेण मतुबर्थयोः 'इनि' प्रत्ययः तथा च अङ्गस्य कुक्-आगमः भवति । पिशाचः विद्यते अस्मिन् सः पिशाचकी ।

Balamanorama

Up

index: 5.2.129 sutra: वातातिसाराभ्यां कुक् च


वातातिसाराभ्यां कुक् च - वातातीसाराभ्यां । चादिनिरिति । वात, अतीसार आभ्यां मत्वर्थे इनिः स्यात् प्रकृतेः कुक् चेत्यर्थः । कुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्तावयवः । वातकीति । वातरोगवानित्यर्थः । अथीसारकीति । अतीसाररोगवानित्यर्थः ।रोगे चायमिति । व्याख्यानादिति भावः । रोग एवेत्यर्थः । वातवती गुहेति । अत्र रोगस्याऽप्रतीतेरिनिकुकौ नेति भावः । पिशाचाच्चेति । वार्तिकमिदम् । पिशाचादिनिः प्रकृतेः कुक्चेत्यर्थः ।

Padamanjari

Up

index: 5.2.129 sutra: वातातिसाराभ्यां कुक् च


वातातिसारयोरुपतापत्वादिति। अतिसारसाहचर्याद्वातस्यापि व्याधेरेव ग्रहणम्, न वायोरिति भावः। सिद्धे प्रत्यय इति। इनावेवेत्यर्थः। रोगे चायमिष्यते इति क्वचित्पठ।ल्ते, तत्रोक्तो हेतुः ॥