शिखाया वलच्

4-2-89 शिखायाः वलच् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

शिखाशब्दाद् वलच् प्रत्ययो भवति चातुरर्थिकः। यथासंभवमर्थसंबन्धः। शिखावलं नाम नगरम्। मतुप्प्रकरणेऽपि शिखाया वलचं ५.२.११३ वक्ष्यति, तददेशार्थं वचनम्॥

Siddhanta Kaumudi

Up

शिखावलम् ॥

Laghu Siddhanta Kaumudi

Up

शिखावलः ॥ इति चातुरर्थिकाः ॥ ४ ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<शिखाया वलच्>> - शिखाया वलच् । निर्वृत्ताद्यर्थं सूत्रं, देशे तन्नाम्नि अणो बाधनार्थं च ।दन्तशिखात्संज्ञाया॑मिति पञ्चमे वक्ष्यमाणं तु अदेशे ।ञपि शिखावल इति रूपार्थछम् ।

Padamanjari

Up

शिखाया वलज्वक्ष्यतीति ।'दन्तशैखात्संज्ञायाम्' इत्यनेन । तददेशार्थं वचनमिति । इदं तु निवृताद्यर्थम्, देशे तन्नाम्न्यणो बाधनार्थं च ॥