ऊषसुषिमुष्कमधो रः

5-2-107 ऊषशुषिमुष्कमधो रः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप्

Sampurna sutra

Up

'तत् अस्य अस्मिन् अस्तीति' (इति) ऊष-सुषि-मुष्क-मधः रः

Neelesh Sanskrit Brief

Up

'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः ऊष, सुषि, मुष्क, मध - एतेभ्यः शब्देभ्यः प्रथमासमर्थेभ्यः 'र' प्रत्ययः भवति ।

Kashika

Up

ऊष सुषि मुष्क मधु इत्येतेभ्यो रः प्रत्ययो भवति मत्वर्थे। ऊषरं क्षेत्रम्। सुषिरं काष्ठम्। मुष्करःपशुः। मधुरो गुडः। इतिकरणो विवक्षार्थः सर्वत्राभिधेयनियमं करोति। इह न भवति — ऊषोऽस्मिन् घटे विद्यते, मध्यस्मिन् घटे विद्यत इति॥ रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम्॥ खमस्यास्ति कण्ठविवरं महत् खरः। मुखमस्यास्तीति सर्वस्मिन् वक्तव्ये मुखरः। कुञ्जावस्य स्तः कुञ्जरः। हस्तिहनू कुञ्जशब्देनोच्येते॥ नगपांसुपाण्डुभ्यश्चेति वक्तव्यम्॥ नगरम्। पांसुरम्। पाण्डुरम्॥ कच्छ्वा। ह्रस्वत्वं च॥ कच्छुरम्।

Siddhanta Kaumudi

Up

ऊषरः । सुषिरः । मुष्कोऽण्डः, मुष्करः । मधु माधुर्यम्, मधुरः ।<!रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम् !> (वार्तिकम्) ॥ खरः । मुखरः । कुञ्जो हस्तिहनुः, कुञ्जरः ।<!नगपांसुपाण्डुभ्यश्च !> (वार्तिकम्) ॥ नगरम् । पांसुरः । पाण्डुरः । पाण्डुरशब्दस्तु अव्युत्पन्न एव ।<!कच्छ्वा ह्रस्वत्वं च !> (वार्तिकम्) ॥ कच्छुरः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 अनेन सूत्रेण सर्वेभ्यः प्रातिपदिकेभ्यः 'तस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः औत्सर्गिकरूपेण मतुँप्-प्रत्ययः उच्यते ।अस्य अपवादरूपेण अनेन सूत्रेण 'ऊष' (infertile / sterile soil), 'सुषि' (hole present in a wooden pipe), 'मुष्क' (= large testicle), तथा 'मधु' (sweetness) एतेभ्यः शब्देभ्यः 'र' इति प्रत्ययः भवति । यथा - 1. ऊषः अस्मिन् अस्ति तत् ऊषरम् क्षेत्रम् । 2. सुषिः यस्मिन् अस्ति तत् सुषिरम् काष्ठम् । 3. मुष्कौ अस्य स्तः सः मुष्करः पशुः । 4. मधु अस्मिन् अस्ति तत् मधुरम् फलम् । विशेषः - अस्य सूत्रस्य प्रयोगः विशिष्टेषु अर्थेषु एव भवतीति व्याख्यानेषु स्पष्टीक्रियते । अतः 'ऊषः अस्ति अस्मिने घटे' / 'सुषिः अस्ति अस्मिन् घटे' - एतादृशेषु स्थलेषु अस्य सूत्रस्य प्रयोगः न भवति । शिष्टप्रयोगमनुसृत्य एव अस्य सूत्रस्य प्रयोगः करणीयः - इति आशयः । अत्र त्रीणि वार्त्तिकानि ज्ञेयानि - 1. <!र-प्रकरणे ख-मुख-कुञ्जेभ्यः उपसङ्ख्यानम्!> । इत्युक्ते, 'ख', 'मुख' तथा 'कुञ्ज' शब्देभ्यः अपि मतुबर्थयोः र-प्रत्ययः भवति । यथा - [अ] ख - cavity of the throat (कण्ठविवरम्) अस्मिन् अर्थे अयम् शब्दः प्रयुज्यते । खमस्ति अस्य सः खरः । गर्दभः इत्यर्थः । [आ] मुख - मुखमस्य अस्ति सर्वस्मिन् वक्तव्ये सः मुखरः (वाचालः इत्यर्थः) । अत्र 'सर्वस्मिन् वक्तव्ये' इति सन्दर्भे एव प्रत्ययविधानम् भवति । The one who has to say something in every discussion / talkative / noisy इति अर्थः । [इ] कुञ्ज - हस्तिनः दन्तौ, हनु वा 'कुञ्ज' नाम्ना ज्ञायते (The jaw / teeth of an elephant) । कुञ्जौ स्तः अस्य सः कुञ्जरः गजः । अत्र विग्रहवाक्ये द्विवचनस्य प्रयोगः भवति, यतः 'हनु' तथा 'दन्त' उभयोः सङ्ख्या 'द्वौ' एव अस्ति । 2. <!नगपांसुपाण्डुभ्यश्चेति वक्तव्यम्!> । इत्युक्ते, नग, पांसु, पाण्डु - एतेभ्यः शब्देभ्यः अपि मतुबर्थयोः र-प्रत्ययः भवति । यथा - [अ] नगाः (= पर्वताः) सन्ति अस्मिन् तत् नगरम् । [आ] पांसु (dung / manure) अस्ति अस्मिन् तत् पांसुरम् । [इ] पाण्डु (शुक्लत्वम्, brightness / whiteness) अस्ति अस्मिन् तत् पाण्डुरः । 3. <!कच्छ्वा ह्रस्वत्वं च!> । इत्युक्ते 'कच्छू' शब्दात् मतुबर्थयोः र-प्रत्ययः भवति, तथा च अस्य शब्दस्य ह्रस्वादेशः अपि विधीयते । यथा - कच्छू (itch) अस्ति यस्मिन् सः कच्छुरः ।

Balamanorama

Up

<<ऊषसुषिमुष्कमधो रः>> - ऊषसुषि । ऊष, सुषि, मुष्क, मधु-एषां समाहारद्वन्द्वात्पञ्चम्येकवचनम् । सोत्रं पुंस्त्वम् । एभ्यो मत्वर्थे रप्रत्ययः स्यादित्यर्थः । ऊषर इति । ऊषः क्षारमृत्तिकाविशेषोऽस्यास्तीति विग्रहः । सुषिर इति । सुषिः=बिलम्,-अस्यास्तीति विग्रहः । मधुशब्दः क्षोद्रे द्रव्ये, माधुर्यात्मकरसविशेषे च गुणे वर्तते । तत्र रसविशेषवाचिन एवात्र ग्रहणमित्याह — मधुमाधुर्यमिति । तथा भाष्यादिति भावः । अन्यथा मधुद्रव्यवति घटेऽपि मधुरपदप्रयोगः स्यात् । खरो गर्दभः, धिष्णयो वा । मुखरः=शभ्दं कुर्वन् । कुञ्जरो-हल्ती । रूढशब्दा एते । नगपांस्विति । वार्तिकमिदम् ।नगर॑मिति जातिविशेषवाची । अत एव नगरीति ङीष् । पांसुर इति । पांसुरस्यास्तीति विग्रहः । पाण्डुर इति । पाण्डुः=शुक्लवर्णः, स अस्यास्तीति विग्रहः । कथं पाण्डरशब्द इत्यत आह — पाण्डरशब्दस्त्विति ।हरिणः पाण्डरः पाण्डु॑रित्यमरः । कच्छ्वा इति । वार्तिकमिदम् । कच्छूशब्दाप्र्रत्ययः, प्रकृतेह्र्यस्वश्च अन्तादेश इत्यर्थः । कच्छुरः — शुनां रोगविशेषः ।

Padamanjari

Up

समाहारद्वन्द्वे सौत्रः पुल्लिङ्ग निर्देशः। सुषिमधुभ्यां मतुपि प्रापर्ते इतराभ्यामिनिठनोश्च रो विधीयते। ऊषाःउहरिणपांसवः, सुषिःउच्छिद्रम्, मुष्कौउअण्कडौ। मधूमाधुर्याख्यो रसविशेषः, न माक्षिकं माध्वीकं वा; अनभिधानात्। एवं च मध्विदं मधुरमिति मधुन्यपि प्रयोगोपपतिः। इह च न भवति - मध्वस्मिन् घटो विद्यत इति। रप्रकरण इति। प्रकरणमुप्रस्तावः। कण्ठविवरं महदिति। गर्दभे व्युत्पत्तिं दर्शयति। तैक्षण्ये त्वव्युत्पन्नः खरशब्दः। मुखरःउवाचाल; तस्य हि सर्वस्मिन्वक्तव्ये मुखमस्ति; वक्तव्यावक्तव्यविवेकाभावात्। मुखमुवागिन्द्रियम्। हस्तिहनुः कुञ्जशब्देनोच्यत इति। वृत्तिविषये। एतच्च सम्भवन्नवयवार्थः किमिति त्यज्यत इत्यभिप्रायेणोक्तम्। जातिशब्दस्तु कुञ्जरशब्दो हस्तिशब्दवत्। नगरमिति। नगाःउवृक्षाः, पर्वताश्च। अयमपि जातिशब्द एव, तथा चनगरी, जातिलक्षणो ङीष् भवति। नगशब्दोऽयमश्मादिषु पठ।ल्ते इति वुञ्च्छणादिशूत्रेणास्य सिद्धत्वात्, तस्माद्रो न वक्तव्यः। पाण्डुरमिति। पाण्डुःउशुक्लो वर्णः, तद्वत्पाण्डुरः। पाण्कडरशब्दस्त्वव्युत्पन्न एव गुणमात्रे गुणिनि च वर्तते ॥