वत्सरान्ताच्छश्छन्दसि

5-1-91 वत्सरान्तत् छः छन्दसि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् कालात्

Sampurna sutra

Up

'तेन निर्वृत्तम्' (तथा) 'तमधीष्टो भृतो भूतो भावी' (इति) वत्सरान्तात् छन्दसि छः

Neelesh Sanskrit Brief

Up

यः शब्दः 'वत्सर' इत्यनेन समाप्यते, तस्मात् 'निर्वृत्तम्' इत्यस्मिन् अर्थे तथा च 'अधीष्टः', 'भृतः', 'भूतः' तथा 'भावी' एतेषु अर्थेषु वेदेषु छ-प्रत्ययः कृतः दृश्यते ।

Kashika

Up

वत्सरान्तात् प्रातिपदिकाद् निर्वृत्तादिष्वर्थेषु छन्दसि विषये छः प्रत्ययो भवति। ठञोऽपवादः। इद्वत्सरीयः। इदावत्सरीयः (काठ०सं० १३.१५)॥

Siddhanta Kaumudi

Up

निर्वृत्तादिष्वर्थेषु । इद्वत्सरीयः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'वत्सर' इत्युक्ते वर्षम् । यस्य शब्दस्य अन्ते 'वत्सर' इति पदमागच्छति, तादृशः शब्दः 'वत्सरान्तः' अस्तीति उच्यते । अस्मात् 'वत्सरान्त'शब्दात् <<तेन निर्वृत्तम्>> 5.1.79 इत्यनेन निर्दिष्टस्य 'निवृत्तम्' अस्य अर्थस्य विषये ; तथा च <<तमधीष्टो भृतो भूतो भावी>> 5.1.80 इत्यनेन निर्दिष्टानाम् 'अधीष्टः, भृतः, भूत, भावी' - एतेषामर्थानाम् विषये वेदेषु छ-प्रत्ययः कृतः दृश्यते । अस्य सम्यक् अर्थं ज्ञातुम् प्रारम्भे काचन पीठिका ज्ञेया । वेदेषु बहुत्र 'युगम्' इति संज्ञा 'पञ्चवर्षाणाम् समूहः' अस्मिन् अर्थे कृता दृश्यते । यथा, यजुर्वेदे 'पञ्चकम् युगम्' इति प्रयोगः बहुत्र दृश्यते । अस्मिन् 'पञ्चके' युगे यानि पञ्चवर्षाणि विद्यन्ते, तेषाम् क्रमेण - 'संवत्सर, परिवत्सर, इदावत्सर, इद्वत्सर, तथा वत्सर' - एतानि नामानि अपि दत्तानि सन्ति । एतानि पञ्च नामानि एव अस्मिन् सूत्रे 'वत्सरान्त' इत्यनेन निर्दिष्टानि सन्ति । एतेभ्यः एव - (अ) <<तेन निर्वृत्तम्>> 5.1.79 इत्यनेन निर्दिष्टे 'निवृत्तम्' अस्मिन् अर्थे ; तथा च (आ) <<तमधीष्टो भृतो भूतो भावी>> 5.1.80 इत्यनेन निर्दिष्टेषु 'अधीष्टः, भृतः, भूत, भावी' एतेषु अर्थेषु वेदेषु छ-प्रत्ययः कृतः दृश्यते । अनेन 'संवत्सरीय', 'परिवत्सरीय', 'इदावत्सरीय', 'इद्वत्सरीय' तथा 'वत्सरीय' - एते शब्दाः सिद्ध्यन्ति । ज्ञातव्यम् - 'संवत्सर' तथा 'परिवत्सर' शब्दाभ्याम् <<सम्परिपूर्वात् ख च>> 5.1.92 इत्यनेन अग्रिमसूत्रेण 'ख' प्रत्ययः अपि उच्यते, येन 'संवत्सरीण' तथा 'परिवत्सरीण' एते रूपे सिद्ध्यतः ।

Balamanorama

Up

Padamanjari

Up

इद्वत्सर-इदावत्सरशब्दौ पञ्चवर्षे युगे द्वयोर्घर्षयोः संज्ञे। एवं संवत्सर-परिवत्सरशब्दावपि ॥