सम्परिपूर्वात् ख च

5-1-92 सम्परिपूर्वात् ख च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् कालात् वत्सरान्तत् छः छन्दसि

Sampurna sutra

Up

'तेन निर्वृत्तम्' (तथा) 'तमधीष्टो भृतो भूतो भावी' (इति) सम्-परि-पूर्वात् वत्सरान्तात् छन्दसि छः खः च

Neelesh Sanskrit Brief

Up

'संवत्सर' तथा 'परिवत्सर' एताभ्यां शब्दाभ्याम् 'निर्वृत्तम्' इत्यस्मिन् अर्थे तथा च 'अधीष्टः', 'भृतः', 'भूतः', तथा 'भावी' एतेषु अर्थेषु वेदेषु 'ख' तथा 'छ' एतौ प्रत्ययौ कृतौ दृश्येते ।

Kashika

Up

संपरिपूर्वाद् वत्सरान्तात् प्रातिपदिकाच् छन्दसि विषये निर्वृत्तादिष्वर्थेषु खः प्रत्ययो भवति, चकाराच् छश्च। सं॒व॒त्स॒रीणाः॑ (तै०सं०४.३.१३.४)। परिवत्स॒रीण॑म् (ऋ० ७.१०३.८)। संवत्सरीया, परिवत्सरीया (काठ०सं०१३.१५)॥

Siddhanta Kaumudi

Up

चाच्छः । संवत्सरीणः । संवत्सरीयः । परिवत्सरीणः । परिवत्सरीयः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'संवत्सर' तथा 'परिवत्सर' एताभ्याम् शब्दाभ्याम् <<वत्सरान्ताच्छश्छन्दसि>> 5.1.91 इत्यनेन पूर्वसूत्रेण <<तेन निर्वृत्तम्>> 5.1.79 इत्यत्र निर्दिष्टे 'निर्वृत्तम्' अस्मिन् अर्थे ; तथा च <<तमधीष्टो भृतो भूतो भावी>> 5.1.80 इत्यत्र निर्दिष्टेषु अधीष्टादिषु अर्थेषु वेदेषु छ-प्रत्ययविधानम् कृतमस्ति । वर्तमानसूत्रेण एताभ्यामेव शब्दाभ्याम् एतयोः एव अर्थयोः वेदस्य विषये ख-प्रत्ययः अपि उच्यते । यथा - संवत्सरेण निर्वृत्तम् संवत्सरीणम् संवत्सरीयम् च । परिवत्सरं अधीष्टः भृतः भूतः भावी वा परिवत्सरीणः परिवत्सरीयः च । ज्ञातव्यम् - वेदेषु बहुत्र 'युगम्' इति संज्ञा 'पञ्चवर्षाणाम् समूहः' अस्मिन् अर्थे कृता दृश्यते । यथा, यजुर्वेदे 'पञ्चकम् युगम्' इति प्रयोगः बहुत्र दृश्यते । अस्मिन् 'पञ्चके' युगे यानि पञ्चवर्षाणि विद्यन्ते, तेषाम् क्रमेण - 'संवत्सर, परिवत्सर, इदावत्सर, इद्वत्सर, तथा वत्सर' - एतानि नामानि अपि दत्तानि सन्ति । अत्र विद्यमानौ संवत्सर-परिवत्सरशब्दौ एव अस्मिन् सूत्रे गृह्येते ।

Balamanorama

Up

Padamanjari

Up