5-1-110 विशाखाषाढात् अण् मन्थदण्डयोः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तत् अस्य प्रयोजनम्
index: 5.1.110 sutra: विशाखाषाढादण् मन्थदण्डयोः
'तत् अस्य प्रयोजनम्' (इति) विशाखा-आषाढात् मन्थ-दण्डयोः अण्
index: 5.1.110 sutra: विशाखाषाढादण् मन्थदण्डयोः
'अस्य प्रयोजनम्' अस्मिन् अर्थे प्रथमासमर्थात् 'विशाखा' शब्दात् मन्थस्य निर्देशं कर्तुम्, तथा च 'आषाढा' शब्दात् दण्डस्य निर्देशं कर्तुमण् प्रत्ययः भवति ।
index: 5.1.110 sutra: विशाखाषाढादण् मन्थदण्डयोः
विशाखाषढाशब्दाभ्यामण् प्रत्ययो भवति तदस्य प्रयोजनम् इत्येतस्मिन् विषये यथासङ्ख्यम् मन्थदण्डयोरभिधेययोः। विशाखा प्रयोजनमस्य वैशाखो मन्थः। आषाढो दण्डः। चूडादिभ्य उपसङ्ख्यानम्। चूडा प्रयोजनमस्य चौडम्। श्रद्धा प्रयोजनमस्य श्राद्धम्।
index: 5.1.110 sutra: विशाखाषाढादण् मन्थदण्डयोः
आभ्यामण्स्यात्प्रयोजनमित्यर्थे क्रमान्मन्थदण्डयोर्थयोः । विशाखा प्रयोजनमस्य वैशाखो मन्थः । आषाढो दण्डः ।<! चूडादिभ्य उपसंख्यानम् !> (वार्तिकम्) ॥ चूडी, चौडम् । श्रद्धा, श्राद्धम् ॥
index: 5.1.110 sutra: विशाखाषाढादण् मन्थदण्डयोः
प्रयोजनम् इत्युक्ते उद्देशः / कारणम् / फलम् (goal / purpose) । प्रथमासमर्थात् उद्देशवाचीशब्दात् 'अस्य' इत्यस्मिन् अर्थे प्रयोजनम् 5.1.109 इत्यनेन औत्सर्गिकरूपेण ठञ्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण 'विशाखा' शब्दात् मन्थस्य निर्देशं कर्तुम्, तथा च 'आषाढा' शब्दात् दण्डस्य निर्देशं कर्तुमण्-प्रत्ययः भवति । क्रमेण पश्यामः -
1) 'विशाखा' शब्दात् 'मन्थ' (मन्थनार्थे प्रयुक्तः दण्डः) अस्मिन् अर्थे अण् प्रत्ययः भवति । विशाखा प्रयोजनमस्य सः वैशाखः मन्थः । सः दण्डः यः मन्थनार्थम् विशाखानक्षत्रे प्रयुज्यते, सः वैशाखः मन्थः ।
2) 'आषाढा' शब्दात् 'दण्ड' (मुनीनाम् हस्ते अस्ति सः दण्डः) अस्मिन् अर्थे अण् प्रत्ययः भवति । आषाढा प्रयोजनमस्य सः आषाढः दण्डः । आषाढानक्षत्रे प्रयुज्यमानः दण्डः 'आषाढः' इति संज्ञां प्राप्नोति ।
स्मर्तव्यम् - 'वैशाखः मन्थः तथा आषाढः दण्डः - एतौ द्वौ विशिष्टौ संज्ञावाचकशब्दौ स्तः । कस्यचन विशिष्टस्य मन्थस्य नाम 'वैशाख' इति अस्ति; तथा च कस्यचन विशिष्टस्य दण्डस्य नाम 'आषाढः दण्डः' इति वर्तते । एतयोः शब्दयोः व्युत्पत्यर्थमस्य सूत्रस्य निर्माणम् कृतमस्ति ।
अत्र वार्त्तिकमेकं ज्ञातव्यम् - <!चूडादिभ्यः उपसंख्यानम्!> - 'चूडा' तथा 'श्रद्धा' - एताभ्यां शब्दाभ्यां 'प्रयोजनम्' अस्मिन् अर्थे अण् प्रत्ययः भवति । चूडा प्रयोजनमस्य चौडम् । श्रद्धा प्रयोजनमस्य तत् श्राद्धम् ।
index: 5.1.110 sutra: विशाखाषाढादण् मन्थदण्डयोः
विशाखाऽऽषाढादण् मन्थदण्डयोः - विशाखाषाढात् । विशाखाशब्दादाषाढशब्दाच्च प्रथमान्तादस्य प्रयोजनमित्यर्थे अण् स्यात्, समुदायेन मन्थे दण्डे च क्रमाद्गम्ये सतीत्यर्थः । तदाह — आब्यामिति । स्थूणामेका निखाय तस्यां रज्जुद्वयमधरोत्तरमासज्य तयो रज्ज्वोर्मन्थनदण्ड ऊध्र्वमासज्यते । येन रज्ज्वा भ्रामितेन दधि विलोडते इति स्थितिः । तत्र स्थूणा मन्थ इत्युच्यते । मन्थानाख्यदण्डो दण्ड उच्यते । अनयोर्वैशाखशब्द आषाढशब्दश्च रूढौ । तत्रावयवार्थाभिनिवेशो न कर्तव्यः । चूडादिभ्य इति । चूडादिभ्यः प्रतमान्तेभ्योऽस्य प्रयोजनमित्यर्थे अणित्यर्थः । चौडमिति । चूडाप्रयोजनमस्येति विग्रहः । डलयोरभेदाच्चौलमित्यपि । श्राद्धमिति । श्रतद्धा प्रयोजनमस्येति विग्रहः । श्रद्धाशब्दादणि श्राद्धमित्यर्थः । अत्र प्रयोजनशब्दः कारणवाची । श्रद्धाहेतुकमिति यावत् ।
index: 5.1.110 sutra: विशाखाषाढादण् मन्थदण्डयोः
विशाखा प्रयोजनमस्येति। विशाखाषाढशब्दौ रूढिरूपेण मन्थदण्डयोर्वर्तेते, तयोर्यथाकञ्चिद्व्युत्पत्तिः क्रियते। मन्थःउविलोडनदण्डः। आषाढःउव्रतीनां दण्डः। श्रद्धा प्रयोजनमस्येति। अत्र करणं प्रयोजनम् ॥