कर्मण उकञ्

5-1-103 कर्मणः उकञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तस्मै प्रभवति

Sampurna sutra

Up

'तस्मै प्रभवति' (इति) कर्मणः उकञ्

Neelesh Sanskrit Brief

Up

'प्रभवति' अस्मिन् अर्थे चतुर्थीसमर्थात् कर्मन्-शब्दात् उकञ्-प्रत्ययः भवति ।

Kashika

Up

कर्मशब्दादुकञ् प्रत्ययो भवति तस्मै प्रभवतीत्येतस्मिन्नर्थे। ठञोऽपवादः। कर्मणे प्रभवति कार्मुकं धनुः। धनुषोऽन्यत्र न भवति, अनभिधानात्॥

Siddhanta Kaumudi

Up

कर्मणे प्रभवति कार्मुकम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'प्रभवति' इत्युक्ते 'अलम्' (sufficient) / समर्थः (capable) / शक्तः (competent) । अस्मिन् अर्थे चतुर्थीसमर्थात् 'कर्म'शब्दात् 'उकञ्' प्रत्ययः भवति । कर्मणे प्रभवति तत् = कर्मन् + उकञ् → कार्मुकम् धनुः । प्रक्रिया इयम् - कर्मन् + उकञ् → कार्मन् + उक [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → कार्म् + उक [ <<नस्तद्धिते>> 6.4.144 इति टिलोपः] → कार्मुक 'युद्धकर्म' कर्तुम् यत् धनुः पर्याप्तम्, तत् 'कार्मुकम् धनुः' - इति आशयः । ज्ञातव्यम् - अनेन सूत्रेण निर्मितः 'कार्मुक' शब्दः केवलम् 'धनुः' इत्यस्मिन्नेव अर्थे प्रयुज्यते, अन्येषु अर्थेषु न । अस्मिन् विषये पाणिनिना किमपि नोक्तम्, परन्तु तादृशाः प्रयोगाः एव नैव विद्यन्ते । रामरक्षायामयं शब्दः प्रयुक्तः दृश्यते - 'स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः' । येन ईशकार्मुकम् (शिवधनुः) अभज्यत, सः भग्नेशकार्मुकः रामः मम भुजौ (हस्तौ) रक्षतु - इति अर्थः ।

Balamanorama

Up

<<कर्मण उकञ्>> - कर्मण उकञ् ।चतुथ्र्यन्तात्प्रभवतीत्यर्थे॑ इति शेषः । कार्मुकमिति । उकञि टिलोपः ।

Padamanjari

Up

कार्मुकं धनुरिति। अन्यत्र तु न भवति; अनभिधानात् ॥