योगाद्यच्च

5-1-102 योगात् यत् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तस्मै प्रभवति

Sampurna sutra

Up

'तस्मै प्रभवति' (इति) योगात् यत् ठञ् च

Neelesh Sanskrit Brief

Up

'प्रभवति' अस्मिन् अर्थे चतुर्थीसमर्थात् 'योग'शब्दात् 'यत्' तथा 'ठञ्' प्रत्ययः भवति ।

Kashika

Up

योगशब्दाद् यत् प्रत्ययो भवति, चकाराट् ठञ्, तस्मै प्रभवतीत्यस्मिन् विषये। योगाय प्रभवति योग्यः, यौगिकः॥

Siddhanta Kaumudi

Up

चाट्ठञ् । योगाय प्रभवति योग्यः यौगिकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'प्रभवति' इत्युक्ते 'अलम्' (sufficient) / समर्थः (capable) / शक्तः (competent) । अस्मिन् अर्थे चतुर्थीसमर्थात् 'योग'शब्दात् 'यत्' तथा 'ठञ्' प्रत्ययौ भवतः । योगाय प्रभवतिः तत् योग्यम् यौगिकम् वा कार्यम् । स्त्रीत्वे यत्-प्रत्ययान्तशब्दात् <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्ययः भवति, तथा च ठञ्-प्रत्ययान्तशब्दात् <<टिड्ढाणञ्..>> 4.1.15 इति ङीप्-प्रत्ययः भवति । योगाय प्रभवतिः सा योग्या यौगिकी वा क्रिया ।

Balamanorama

Up

<<योगाद्यच्च>> - योगाद्यच्च ।चतुथ्र्यन्तात्प्रभवतीत्यर्थे॑ इति शेषः ।

Padamanjari

Up