कर्मवेषाद्यत्

5-1-100 कर्मवेषात् यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् सम्पादिनि

Sampurna sutra

Up

index: 5.1.100 sutra: कर्मवेषाद्यत्


'तेन सम्पादिनि' (इति) कर्म-वेषात् यत्

Neelesh Sanskrit Brief

Up

index: 5.1.100 sutra: कर्मवेषाद्यत्


तृतीयासमर्थात् 'कर्म'शब्दात् 'वेष'शब्दात् च 'सम्पादिनि' अस्मिन् अर्थे यत्-प्रत्ययः भवति ।

Kashika

Up

index: 5.1.100 sutra: कर्मवेषाद्यत्


कर्मवेषशब्दाभ्यां तृतीयासमर्थाभ्यां यत् प्रत्ययो भवति सम्पादिनि इत्येतस्मिन् विषये। ठञोऽपवादः। कर्मणा सम्पद्यते कर्मण्यम् शरीरम्। वेषेण संपद्यते वेष्यो नटः।

Siddhanta Kaumudi

Up

index: 5.1.100 sutra: कर्मवेषाद्यत्


कर्मणा संपादि कर्मण्यं शौर्यम् । वेषेण संपादी वेष्यो नटः । वेषः कृत्रिम आकारः ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.100 sutra: कर्मवेषाद्यत्


'सम्पादिनि' इति सम्पादिन्-शब्दस्य सप्तम्येकवचनम् । सम्पादिन् इत्युक्ते 'यः शोभते सः' (The one that looks beautiful - इत्यर्थः) । तृतीयासमर्थात् सम्पादिनि 5.1.100 इत्यनेन सर्वेभ्यः प्रातिपदिकेभ्यः ठञ्-प्रत्यये प्राप्ते तं बाधित्वा 'कर्म'शब्दात् तथा 'वेष'शब्दात् वर्तमानसूत्रेण यत्-प्रत्ययः भवति । यथा -

  1. कर्मेण सम्पादि कर्म्यम् शरीरम् । कर्म कृत्वैव यत् शोभते, न हि आलस्येन, तत् कर्म्यम् शरीरम् ।

  2. वेषेण सम्पादी वेष्यः नटः । उचितं वेषं धारयित्वा यः शोभते सः वेष्यः नटः (actor) ।

ज्ञातव्यम् - 'सम्पत्ति' शब्दात् आवश्यकाधमर्णयोर्णिनिः 3.3.170 अनेन सूत्रेण 'णिनि' प्रत्ययं कृत्वा 'सम्पादिन्' इति इन्नन्तः शब्दः सिद्ध्यति ।

Balamanorama

Up

index: 5.1.100 sutra: कर्मवेषाद्यत्


कर्मवेषाद्यत् - कर्मवेषाद्यत् । तृतीयान्तात्कर्मन्शब्दात्, वेषशब्दाच्च संपादिन्यर्थे यत्स्यादित्यर्थः ।

Padamanjari

Up

index: 5.1.100 sutra: कर्मवेषाद्यत्


कर्मृउव्यायामः, वेषःउकृत्रिम आकारः ॥