4-4-94 उरसः अण् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् निर्मिते
'उरसः निर्मितः' (इति) संज्ञायामण् यत् च
उरस्-शब्दात् 'निर्मितः' अस्मिन् अर्थे संज्ञायाः विषये 'अण्' तथा 'यत्' प्रत्ययौ भवतः ।
उरःशब्दात् तृतीयासमर्थाद् निर्मित इत्येतस्मिन्नर्थेऽण् प्रत्ययो भवति, चकाराद् यत् च। उरसा निर्मित औरसः पुत्रः। उरस्यः पुत्रः। संज्ञाधिकारादभिधेयनियमः॥
चाद्यत् । उरसा निर्मितः पुत्रः औरसः । उरस्यः ॥
'उरसा निर्मितः' अस्मिन् अर्थे उरस्-शब्दात् अण् तथा यत् प्रत्ययौ भवतः । 1. अण्-प्रत्यये परे प्रक्रिया - उरसा निर्मितः = उरस् + अण् → औरस् + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → औरस । 2. यत्-प्रत्यये परे प्रक्रिया - उरसा निर्मितः = उरस् + यत् → उरस् + य → उरस्य ज्ञातव्यम् - 1. अस्मिन् सूत्रे अर्थसामर्थ्यात् तृतीयासामर्थ्यम् गृह्यते । 2. अत्र 'संज्ञायाम्' इति अनुवर्तते, अतः औरस / उरस्य शब्दयोः प्रयोगः केवलम् 'पुत्रम्' अस्मिन्नेव अर्थे भवति । सः पुत्रः, यः गर्भात् न निर्मितः अपितु केवलं पुत्ररूपेण स्वीकृतः, तस्य निर्देशः 'औरस' / 'उरस्य' अनेन शब्देन क्रियते ।
<<उरसोऽण् च>> - उरसोऽण्च ।तृतीयान्तान्निर्मिते इत्यर्थे॑ इति शेषः । उरस्य इति ।अङ्गादङ्गात्सम्भवसि ह्मदयादधिजायसे॑ इति श्रुतेरिति भावः । 'पुत्र' इति संज्ञाधिकाराल्लब्धम् ।
औरसः पुत्र इति । आत्मनोत्पादित इत्यर्थः । संज्ञाधिकारादभिधेयनियम इति । उरसा निर्मितं सुखमित्यादौ न भवति ॥