हृदयस्य हृल्लेखयदण्लासेषु

6-3-50 हृदयस्य हृत् लेखयदण्लासेषु उत्तरपदे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

हृदयस्य हृदित्ययमादेशो भवति लेख यत् अण् लास इत्येतेषु परतः। हृदयं लिखतीति हृल्लेखः। यत् — हृदयस्य प्रियं हृद्यम्। अण् — हृदयस्येदं हार्दम्। लास — हृदयस्य लासो हृल्लासः। लेख इत्यणन्तस्य ग्रहणमिष्यते। घञि तु हृदयस्य लेखो हृदयलेखः। एतदेव लेखग्रहणं ज्ञापकमुत्तरपदाधिकारे प्रत्ययग्रहणे तदन्ताग्रहणस्य॥

Siddhanta Kaumudi

Up

हृदयं लिखतीति हृल्लेखः । हृदयस्य प्रियं हृद्यम् । हृदयस्येदं हार्दम् । हृल्लासः । लेखेत्यणन्तस्य ग्रहणम् । घञि तु हृदयलेखः । लेखग्रहणमेव ज्ञापकम् [(परिभाषा - ) उत्तरपदाधिकारे तदन्तविधिर्नास्ति] इति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<हृदयस्य हृल्लेखयदण्लासेषु>> - ह्मदयस्य । लेख, यत्, अम्, लास-एषु परेषु ह्मदयस्य ह्मदादेश इत्यर्थः । ह्मदयं लिखतीति ह्मल्लेखः ।कर्मण्यण् । ह्मद्यमिति । 'ह्मदयस्य प्रियः' इति यत्प्रत्ययः । हार्दमिति ।तस्येद॑मित्यण्, ह्मदादेशः । हल्लास इति । घञन्तोऽयमिति भावः । लेखेत्यणन्तस्य ग्रहणमिति । अण्प्रत्ययसाहचर्यादिति प्राञ्चः । व्याक्यानादिति तत्त्वम् । तर्हि लेखग्रहणमेव व्यर्थम्, अमैवे सिद्धेरित्यत आह — ज्ञापकमिति । ज्ञाप्यांशमाह — उत्तरपदाधिकारे तदन्तविधिर्नास्तीति । तत्फलं तु घरूपकल्पब्ग्रहणे तदन्तविध्यभावः ।

Padamanjari

Up

एअणन्तस्य ग्रहणमिष्यत इति । व्याख्यानात् । अत्र व्यावर्त्यं दर्शयति - घञि त्विति । यदा चाणन्तस्य ग्रहणं न धञन्तस्य, तदा लेखग्रहणस्य ज्ञापकत्वमुपद्यते ॥