अन्नाण्णः

4-4-85 अन्नात् णः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत् लब्धा

Sampurna sutra

Up

index: 4.4.85 sutra: अन्नाण्णः


'तत् लब्धा' इति अन्नात् णः

Neelesh Sanskrit Brief

Up

index: 4.4.85 sutra: अन्नाण्णः


'अन्नम् लब्धा' इत्यस्मिन् अर्थे कर्तारम् निर्देशयितुम् द्वितीयासमर्थात् अन्न-शब्दात् ण-प्रत्ययः भवति ।

Kashika

Up

index: 4.4.85 sutra: अन्नाण्णः


अन्नशब्दात् तदिति द्वितीयासमर्थात् लब्धा इत्येतस्मिनर्थे णः प्रत्ययो भवति। अन्नं लब्धा आन्नः।

Siddhanta Kaumudi

Up

index: 4.4.85 sutra: अन्नाण्णः


अन्नं लब्धा आन्नः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.85 sutra: अन्नाण्णः


अन्नम् लभते सः = अन्नम् लब्धा = अन्न + ण → आन्नः भिक्षुः । स्त्रीत्वे अजाद्यतष्टाप् 4.1.4 इति टाप् - अन्नम् लब्ध्री सा आन्ना सेविका ।

ज्ञातव्यम् - अत्र 'लब्धा' इति लभ्-धातोः तृन्-प्रत्ययान्तरूपमस्ति । लभते सः लब्धा ।

Balamanorama

Up

index: 4.4.85 sutra: अन्नाण्णः


अन्नाण्णः - अन्नाण्णः ।लब्धेत्यर्थे द्वितीयान्ता॑दिति शेषः ।