परिषदो ण्यः

4-4-44 परिषदः ण्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् प्रत्यनु समवैति

Sampurna sutra

Up

index: 4.4.44 sutra: परिषदो ण्यः


'तत् समवायान् समवैति' (इति) परिषदः ण्यः

Neelesh Sanskrit Brief

Up

index: 4.4.44 sutra: परिषदो ण्यः


'समवायान् समवैति' अस्मिन् अर्थे द्वितीयासमर्थात् 'परिषद्' शब्दात् ण्य-प्रत्ययः भवति ।

Kashika

Up

index: 4.4.44 sutra: परिषदो ण्यः


परिषदः ण्यः प्रत्ययो भवति समवायान् समवैति इत्येतस्मिन् विषये। ठकोऽपवादः। परिषदं समवैति पारिषद्यः।

Siddhanta Kaumudi

Up

index: 4.4.44 sutra: परिषदो ण्यः


परिषदं समवैति पारिषद्यः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.44 sutra: परिषदो ण्यः


'समवाय' इत्युक्ते समूहः । 'समवैति' इति 'सम् + अव + इण्' इत्यस्य लट्लकारस्य प्रथमपुरुषैकवचनम् । काशिकाकारः अस्य अर्थं 'आगत्य एकदेशी भवति' इति ब्रूते । इत्युक्ते, यदि कश्चन पदार्थः आदौ समूहे न वर्तते, परन्तु अनन्तरमागत्य समूहस्य सदस्यत्वं प्राप्नोति (समूहस्यैव अवयवरूपेण वर्तते) तर्हि सः 'समवैति' इत्युच्यते । समवायान् समवैति 4.4.43 अस्मिन् अर्थे प्राग्वहतेः ठक् 4.4.1 इत्यनेन औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं बाधित्वा 'परिषद्' शब्दस्य विषये वर्तमानसूत्रेण ण्य-प्रत्ययः भवति । यथा - परिषदम् समवैति सः पारिषद्यः ।

Balamanorama

Up

index: 4.4.44 sutra: परिषदो ण्यः


परिषदो ण्यः - परिषदो ण्यः । द्वितीयान्तात्परिषच्छब्दात्समवैतीत्यर्थे ठगपवादो ण्य इत्यर्थः ।

Padamanjari

Up

index: 4.4.44 sutra: परिषदो ण्यः


परितः सीदन्त्यस्यामिति परिषत्, सम्पदादित्वादधिकरणे क्विप्,'सदिरप्रतेः' इति षत्वम् ॥