प्रतिकण्ठार्थललामं च

4-4-40 प्रतिकण्ठार्थललामं च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् प्रत्यनु गृह्णाति

Sampurna sutra

Up

index: 4.4.40 sutra: प्रतिकण्ठार्थललामं च


'तत् प्रतिकण्ठ-अर्थ-ललामं गृह्णाति' (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः

Neelesh Sanskrit Brief

Up

index: 4.4.40 sutra: प्रतिकण्ठार्थललामं च


'गृह्णाति' अस्मिन् अर्थे द्वितीयासमर्थात् प्रतिकण्ठ/अर्थ/ललामशब्दात् ठक् प्रत्ययः भवति ।

Kashika

Up

index: 4.4.40 sutra: प्रतिकण्ठार्थललामं च


प्रतिकण्ठार्थललामशब्देभ्यः तदिति द्वितीयासमर्थेभ्यः गृह्णाति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः। आर्थिकः। लालामिकः।

Siddhanta Kaumudi

Up

index: 4.4.40 sutra: प्रतिकण्ठार्थललामं च


एभ्यो गृह्णात्यर्थे ठक् स्यात् । प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः । आर्थिकः लालामिकः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.40 sutra: प्रतिकण्ठार्थललामं च


'गृह्णाति' अस्मिन् अर्थे द्वितीयासमर्थात् 'प्रतिकण्ठ'शब्दात् , 'अर्थ'शब्दात्, 'ललाम'शब्दात् च ठक् प्रत्ययः भवति । क्रमेण पश्यामः । -

  1. प्रतिकण्ठ - 'कण्ठ' इत्युक्ते मतम् / विचारम् / चिन्तनम् / पर्यायः / शब्दः । भिन्नानां विचाराणाम् / पर्यायाणाम् / शब्दानाम् वा सङ्कलनम् 'प्रतिकण्ठ' नाम्ना ज्ञायते । कण्ठं कण्ठं प्रति = प्रतिकण्ठम् । 'प्रतिकण्ठम्' अस्य शब्दस्य अन्यः अपि एकः अर्थः भवितुमर्हति - लक्षणेनाभिप्रती आभिमुख्ये 2.1.14 इत्यनेन यत् 'कण्ठमाभिमुख्यम्' (कण्ठस्य दिशायां) वर्तते तदपि प्रतिकण्ठम् नाम्ना ज्ञायते । एतादृशं प्रतिकण्ठं यः गृह्णाति सः प्रातिकण्ठिकः । यथा, यः ग्रन्थः सर्वेषाम् मतानाम् चिन्तनानाम् च सङ्कलनम् करोति सः प्रातिकण्ठिकः ग्रन्थः ।

  2. अर्थ - अर्थं गृह्णाति (जानाति / स्वीकरोति) सः आर्थिकः ग्रन्थः । अर्थ + ठक् → आर्थिक ।

  3. ललाम - 'ललाम' इत्युक्ते अलङ्कारः। ललामम् गृह्णाति सः लालामिकः ग्रन्थः । यस्मिन् ग्रन्थे भिन्नाः शब्दालङ्काराः प्रयुज्यन्ते, तस्य निर्देशः अत्र कृतः अस्ति ।

Balamanorama

Up

index: 4.4.40 sutra: प्रतिकण्ठार्थललामं च


प्रतिकण्ठार्थललामं च - प्रतिकण्ठार्थ । एभ्य इति । प्रतिकण्ठ, अर्थ, ललाम — इत्येभ्य इत्यर्थः । आर्थिक इति । अर्थं गृह्णातीत्यर्थः । लालामिक इति । ललामं=चिह्नं, तद्गृह्णातीत्यर्थः ।लिङ्गं ललामं च ललाम चे॑त्यमरः ।

Padamanjari

Up

index: 4.4.40 sutra: प्रतिकण्ठार्थललामं च


कण्ठ्ंअ कण्ठ्ंअ प्रति प्रतिकण्ठम्,'यथार्थे यदव्ययम्' इति वीप्सायामव्ययीभावः । आभिमुख्ये वा,'लक्षणेनाभिप्रती आभिमुख्ये' इति । यस्तु प्रतिगतः कण्ठ्ंअ प्रतिकण्ठ इति प्रादिसमासः, तस्य ग्रहणं न भवतिऽ अनभिधानात् ॥