4-4-28 तत् प्रत्यनु पूर्वम् ईपलोमकूलम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् वर्तते
index: 4.4.28 sutra: तत् प्रत्यनुपूर्वमीपलोमकूलम्
'तत् प्रति-अनुपूर्वम् ईप-लोम-कूलम् वर्तते' इति समर्थानाम् प्रथमात् परः ठक् प्रत्ययः
index: 4.4.28 sutra: तत् प्रत्यनुपूर्वमीपलोमकूलम्
'प्रति'पूर्वकः 'अनु'पूर्वकः च यः ईप/लोम/कूल-शब्दः, तस्मात् द्वितीयासमर्थात् 'वर्तते' अस्मिन् अर्थे ठक् प्रत्ययः भवति ।
index: 4.4.28 sutra: तत् प्रत्यनुपूर्वमीपलोमकूलम्
तदिति द्वितीयासमर्थविभक्तिः। प्रति अनु इत्येवं पूर्वेभ्यः ईपलोमकूलशब्देभ्यो द्वितियासमर्थेभ्यो वर्तते इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। ननु च वृतिरकर्मकः, तस्य कथं कर्मणा सम्बन्धः? क्रियाविश्षणमकर्मकाणामपि कर्म भवति। प्रतीपं वर्तते प्रातीपिकः। आन्वीपिकः। प्रातिलोमिकः। आनुलोमिकः। प्रातिकूलिकः। आनुकूलिकः।
index: 4.4.28 sutra: तत् प्रत्यनुपूर्वमीपलोमकूलम्
द्वितायान्तादस्माद्वर्तत इत्यस्मिन्नर्थे ठक् स्यात् । क्रियाविशेषणत्वाद्द्वितीया । प्रतीपं वर्तते प्रातीपिकः । आन्वीपिकः । प्रातिलोमिकः । प्रातिकूलिकः । आनुकूलिकः ॥
index: 4.4.28 sutra: तत् प्रत्यनुपूर्वमीपलोमकूलम्
अस्य सूत्रस्य अर्थम् सम्यक् ज्ञातुम् प्रारम्भे बिन्दुद्वयम् ज्ञातव्यम् -
[अ] प्रति + ईप → प्रतीप । प्रति + लोम → प्रतिलोम । प्रति + कूल → प्रतिकूल । एतेषां त्रयाणाम् शब्दानामर्थः 'विपरीत' इत्येव भवति । तथैव -
[आ] अनु + ईप → अन्वीप । अनु + लोम → अनुलोम । अनु + कूल → अनुकूल । एतेषां त्रयाणाम् शब्दानामर्थः अपि समानः एव ।
अस्मिन् विषये बालमनोरमायामुच्यते - ' प्रतीपान्वीपशब्दौ हि प्रतिकूलानुकूलशब्दपर्यायौ' । अस्यापि अयमेव अर्थः ।
इदानीमस्य सूत्रस्य अर्थः स्पष्टः स्यात् - 'प्रतीपं वर्तते / अन्वीपं वर्तते / प्रतिलोमं वर्तते / अनुलोमं वर्तते / प्रतिकूलं वर्तते / अनुलोमं वर्तते' एतेषु वाक्येषु द्वितीयासमर्थात् ठक् प्रत्यय भवति । यथा -
प्रतीपं वर्तते सः प्रातिपिकः । प्रतिलोमं वर्तते सः प्रातिलोमिकः । प्रतिकूलं वर्तते सः प्रातिकुलिकः । त्रयाणामर्थाः समानाः एव । यथा - प्रातिपिकः / प्रातिलोमिकः / प्रातिकुलिकः निर्णयः इत्युक्ते विपरीतः निर्णयः ।
अन्वीपं वर्तते सः आन्वीपिकः ।अनुलोमं वर्तते सः आनुलोमिकः । अनुकूलं वर्तते सः आनुकुलिकः । अत्रापि त्रयाणामर्थाः समानाः सन्ति । यथा - आन्विपिकः आनुलोमिकः आनुकुलिकः वा निश्चयः ।
ज्ञातव्यम् - 'प्रतीप' तथा 'अन्वीप' एतौ शब्दौ वस्तुतः 'प्रति + आप्' तथा 'अनु + आप्' एतादृशं बहुव्रीहिसमासेन निर्मिताः सन्ति । अत्र प्रक्रियायाम् द्वयन्तरुपसर्गेभ्योऽप ईत् 6.3.97 इत्यनेन आकारस्य ईकारादेशं कृत्वा अग्रे सन्धिकार्यं च कृत्वा एतयोः निर्माणं भवति ।
index: 4.4.28 sutra: तत् प्रत्यनुपूर्वमीपलोमकूलम्
तत् प्रत्यनुपूर्वमीपलोमकूलम् - तत्प्रत्यनुपूर्व ।त॑दिति द्वितीयान्तानुकरणम् । प्रत्यनुपूर्वेभ्यो द्वितीयान्तेभ्य ईषलोमकूलशब्देभ्यो वर्तते इत्यर्थे ठक् स्यादित्यर्थः । ननु प्रतीपं वर्तते इत्यादिवक्ष्यमाणविग्रहेषु वर्ततेरकर्मकत्वात्कथं द्वितीयेत्यत आह — क्रियाविशेषणत्वादिति । इदंच कारकनिरूपणे निरूपितम् ।क्रियाविशेषणानां प्रतमान्तत्वमेवे॑ति तु शब्देन्दुशेखरे प्रतीपमिति । प्रतिगता आपो यस्मिन्निति बहुव्रीहिः । 'ऋक्पूः' इत्यकारः समासान्तः । द्व्यन्तरूपसर्गेभ्योऽप ई॑दिति ईत्त्वम् । अनुगता आपो यस्मिन् तदन्वीपम् । 'ऊदनोर्देशे' इत्यूत्त्वं तु न, अदेशत्वात् । प्रतीपान्वीपशब्दौ हि प्रतिकूलानुकूलशब्दपर्यायौ रूढौ । अवयवार्थेषु तु नाभिनिवेष्टव्यम् ।
index: 4.4.28 sutra: तत् प्रत्यनुपूर्वमीपलोमकूलम्
क्रियाविशेषणमित्यादि । आख्यातं हि धात्वर्थस्य कर्तव्यतामाचष्टे - वर्तते उ वर्तनं करोति, सुप्यते उ स्वापः क्रियते, शोभनमोदनं पच्यते उ ओदनकर्मकः पाकः शोभनः क्रियते इति । पचिधात्वर्थः कर्तव्य एव सम्बध्यमानः कर्म सम्पद्यते, तस्य यत्समानाधिकरणं विशेषणं तदपि कर्मैव भवति । प्रातीपिकः, आन्वीपिक इति । प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः, ठृक्पूरब्धूःऽ इत्यिकारः समासान्तः,'द्व्यन्तरुपसर्गेभ्यो' प ईत्ऽ इतीत्वम् । व्युत्पत्तिमात्रं चैतत्, प्रतिकूलानुकूलपर्यायौ त्वेतौ । ठूदनोर्देअशेऽ इत्यूत्वमत्र न भवति; अदेशत्वात्, देशत्वे क्रियाविशेषत्वासम्भवात् । सूत्रे ईप्शब्दस्य निर्देशात् । प्रातिलोमिकः, आनुलोमिक इति । पूर्ववद्वहुव्रीहिः, ठच् प्रत्यन्ववपूर्वात्ऽ इत्यच् समासान्तः । अत्रापि व्युत्पत्तिमात्रम्, अर्थस्तु पूर्वोक्त एव । प्रातिकूलिक इति । पूर्ववद्वहुव्रीहिः । अत्रापि कूलार्थो नास्ति । प्रतिसरणं चैतयोरर्थः ॥