परिमुखं च

4-4-29 परिमुखं च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् वर्तते तत् प्रत्यनु

Sampurna sutra

Up

'तत् परिमुखम् वर्तते' (इति) समर्थानाम् प्रथमात् ठक्

Neelesh Sanskrit Brief

Up

'परिमुखम् वर्तते' इत्यस्मिन् अर्थे द्वितीयासमर्थात् 'परिमुख'शब्दात् ठक् प्रत्ययः भवति ।

Kashika

Up

परिमुखशब्दाद् द्वितीयासमर्थाद् वर्तत इत्यस्मिन्नर्थे ठक् प्रत्ययो भवति। परिमुखं वर्तते पारिमुखिकः। चकारोऽनुक्तसमुच्चयार्थः। पारिपार्शि्वकः॥

Siddhanta Kaumudi

Up

परिमुखं वर्तते पारिमुखिकः । चात्पारिपार्श्विकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'परिमुखम्' इति अव्ययम् । यत्किमपि मुखस्य पुरतः / अग्रे नास्ति परन्तु अन्यत्र अस्ति (यथा - पार्श्वे अस्ति / दक्षिणे अस्ति / वामे अस्ति) तस्य निर्देशं कर्तुम् 'परिमुखम्' इत्यस्य प्रयोगः क्रियते । अस्मात् शब्दात् 'वर्तते' अस्मिन् अर्थे ठक् प्रत्ययः भवति । परिमुख + ठक् → पारिमुखिक । परिमुखम् वर्तते सः पारिमुखिकः । यथा, स्वामिनः मुखं वर्जयित्वा अन्यत्र वर्तते सः सेवकः 'पारिमुखिकः' । ज्ञातव्यम् - 1. 'परिमुखम्' इति अव्ययम् नित्यं द्वितीयैकवचने एव प्रयुज्यते, अतः अत्र द्वितीयायाः सामर्थ्यमस्ति । 2. अस्मिन् सूत्रे 'च' इति निर्देशः कृतः अस्ति । अस्य कारणम् काशिकाकारः 'अनुक्तसमुच्चयार्थम्' इति ददाति । इत्युक्ते, शिष्टप्रयोगमनुसृत्य अन्येऽपि शब्दाः वर्तमानसूत्रेण ठक्-प्रत्ययं स्वीकर्तुमर्हन्ति । यथा - परिपार्श्वम् वर्तते सः पारिपार्श्विकः ।

Balamanorama

Up

<<परिमुखं च>> - परिमुखं च । अस्माद्द्वितीयान्ताद्वर्तते । इत्यर्थे ठगित्यर्थः । चादिति । चकारादनुक्तसमुच्चयार्थात् परिपार्ामित्यस्मादपि ठकि पारिपार्िआकः ।

Padamanjari

Up

पारिमुखिक इति । परिरिह वर्तते, तस्य च ठपपरी वर्जनेऽ इति कर्मप्रवचनीयसंज्ञा,'पञ्चम्यपाङ्परिभिः' इति पञ्चमी, ठपपरिबहिरञ्चवःऽ इत्यव्ययीभावः, अनेन ठक् । स्वामिनो मुकं वर्जयित्वा यः सेवको वर्तते स पारिमुखिकः । सर्वतो भावे वा परिशब्दः, परितो मुखम्, प्रादिसमासः, यतो यतः स्वमिनो मुखं ततस्ततो वर्तते इत्यर्थः । एवं पारिपार्श्विकः ॥