वेशोयशआदेर्भगाद्यल्

4-4-131 वेशोयशादेः भगात् यल् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि मत्वर्थे

Sampurna sutra

Up

index: 4.4.131 sutra: वेशोयशआदेर्भगाद्यल्


वेशो-यश-आदेः भगात् मत्वर्थे छन्दसि संज्ञायाम् यल्

Neelesh Sanskrit Brief

Up

index: 4.4.131 sutra: वेशोयशआदेर्भगाद्यल्


यस्य आदौ 'वेशस् '/ 'यशस्' अस्ति तथा च यस्य अन्ते 'भग' अस्ति तादृशात् प्रथमासमर्थात् मत्वर्थे वेदेषु संज्ञायाः विषये यल्-प्रत्ययः भवति ।

Kashika

Up

index: 4.4.131 sutra: वेशोयशआदेर्भगाद्यल्


मत्वर्थे इत्येव वेशोयशसी आदौ यस्य प्रातिपदिकस्य तस्माद् वेशोयशाऽदेर्भगान्तात् प्रातिपदिकात् मत्वर्थे यल् प्रत्ययो भवति। लकारः स्वरार्थः वेशोभगो विद्यते यस्य स वेशोभग्यः। यशोभग्यः। वेशः इति वलमुच्यते। श्रीकामप्रयत्नमाहात्म्यवीर्ययशस्सु भगशब्दः। वेशश्च असौ भगश्च श्रीप्रभृतिर्वेशोभगः, सोऽस्य अस्तीति वेशोभग्यः।

Siddhanta Kaumudi

Up

index: 4.4.131 sutra: वेशोयशआदेर्भगाद्यल्


यथासंख्यं नेष्यते । वेशो बलं तदेव भगः । वेशोभग्यः । वेशोभगीनः । यशोभग्यः । यशोभगीनः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.131 sutra: वेशोयशआदेर्भगाद्यल्


आदौ पदपरिचयः -

  1. 'मतुप्' इति कश्चन तद्धितप्रत्ययः । तदस्यास्त्यस्मिन्निति मतुप् 5.2.94 इत्यनेन 'तत् अस्य अस्मिन् वा अस्ति' अस्मिन् अर्थे मतुप्-प्रत्ययः विधीयते , अतः अयमर्थः 'मत्वर्थः' नाम्ना अपि ज्ञायते ।

  2. 'वेशस्' इत्युक्ते बलम् । 'यशस्' इत्युक्ते पराक्रमः । 'भग' इत्यस्य 'श्रीकाम', 'प्रयत्न', 'माहात्म्य', 'वीर्य', 'यशः' एते अर्थाः सन्ति ।

यस्य शब्दस्य आदौ वेशस् / यशस् इति विद्यते, तथा अन्ते 'भग' इति विद्यते, तादृशात् शब्दात् मत्वर्थे वेदेषु संज्ञायाम् 'यल्' प्रत्ययः कृतः दृश्यते । यथा -

  1. वेशश्च भगश्च वेशोभगः । वेशोभगः अस्मिन् अस्ति सः = वेशोभग + यल् → वेशोभग्य ।

  2. यशश्च भगश्च यशोभगः । यशोभगः अस्मिन् अस्ति सः = यशोभग + यल् → यशोभग्य ।

ज्ञातव्यम् - 'यल्' प्रत्ययस्य लकारः इत्संज्ञकः अस्ति । अस्य प्रयोजनम् 'स्वरनिर्देशः' इति । लिति 6.1.193 इत्यनेन लित्-प्रत्यये परे प्रत्ययात् पूर्वः स्वरः उदात्तत्वं प्राप्नोति । यथा, 'वेशोभग्य' तथा 'यशोभग्य' उभयत्र भकारोत्तरः अकारः उदात्तत्वं प्राप्नोति ।