संग्रामे प्रयोजनयोद्धृभ्यः

4-2-56 सङ्ग्रामे प्रयोजनयोद्धृभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सः अस्य

Sampurna sutra

Up

'सः अस्य सङ्ग्रामे प्रयोजनयोद्धृभ्यः' (इति) समर्थानां प्रथमात् परः तद्धितः प्रत्ययः अण् वा

Neelesh Sanskrit Brief

Up

प्रथमासमर्थात् प्रयोजनवाचिनः / योद्धावाचिनः शब्दात् सङ्ग्रामस्य निर्देशं कर्तुम् यथाविहितः प्रत्ययः भवति ।

Neelesh English Brief

Up

To indicate a battle using the purpose or the participants of that battle, an appropriate तद्धितप्रत्यय can be attached to the word in the प्रथमा विभक्ति which represents the purpose or the participants of the battle.

Kashika

Up

सोऽस्येति समर्थविभक्तिः, प्रत्ययार्थश्चानुवर्तते। प्रथमासमर्थविशेषणं प्रयोजनं योद्धारश्च। प्रत्ययार्थविशेषणं संग्रामः। प्रयोजनवाचिभ्यो योद्धृवाचिभ्यश्च शब्देभ्यः प्रथमासमर्थेभ्योऽस्येति षष्ठ्यर्थे संग्रामेऽभिधेये यथाविहितं प्रत्ययो भवति। भद्रा प्रयोजनमस्य संग्रामस्य भाद्रः संग्रामः। सौभद्रः। गौरिमित्रः। योद्धृभ्यः — अहिमाला योद्धारोऽस्य संग्रामस्य आहिमालः। स्यान्दनाश्वः। भारतः। संग्राम इति किम्? सुभद्रा प्रयोजनमस्य दानस्य। प्रयोजनयोद्धृभ्य इति किम्? सुभद्रा प्रेक्षिकास्य संग्रामस्य॥

Siddhanta Kaumudi

Up

सोऽस्येत्यनुवर्तते । सुभद्रा प्रयोजनमस्य संग्रामस्येति सौभद्रः । भरता योद्धारोऽ स्य संग्रामस्य भारतः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

यदि कश्चन सङ्ग्रामः तस्य 'प्रयोजनमनुसृत्य' / 'योद्धॄन् अनुसृत्य' वा वर्ण्यते, तर्हि तस्य सङ्ग्रामस्य निर्देशं कर्तुम् वर्तमानसूत्रेण प्रथमासमर्थात् प्रयोजनवाचिनः शब्दात् / योद्धृवाचिनः शब्दात् यथाविहितः प्रत्ययः भवति । यथा - 1. भद्रा प्रयोजनमस्य सङ्ग्रामस्य सः = भद्रा + अण् → भाद्रः सङ्ग्रामः । 2. सुभद्रा प्रयोजनमस्य सङ्ग्रामस्य सः = सुभद्रा + अण् → सौभद्रः सङ्ग्रामः । 3. भरताः योद्धारः अस्य सङ्ग्रामस्य सः = भरत + अण् → भारतः सङ्ग्रामः । 4. अहिमालाः योद्धारः अस्य सङ्ग्रामस्य सः = अहिमाला + अण् → आहिमालः सङ्ग्रामः ।

Balamanorama

Up

<<संग्रामे प्रयोजनयोद्धृभ्यः>> - संग्रामे । अनुवर्तते इति । तथाच 'संग्रामे' इति सप्तम्यन्तं षष्ठआ विपरिणतमस्येत्यनेनान्वेति । तदस्य सङ्ग्रामस्य प्रयोजनं, तेऽस्य सह्ग्रामस्य योद्धार इत्यर्थे प्रयोजनयोद्धृवाचिभ्यः प्रतमान्तेभ्योऽणादयः स्युरित्यर्थः ।

Padamanjari

Up

'समर्थानां प्रथमाद्वा' इति वचनात्संग्रामवाचिभ्यः प्रत्ययः प्राप्नोति, न प्रयोजनयोद्धृभ्यश्चरमनिर्दिष्टेभ्य इत्याशङ्क्याह -सोऽस्येति समर्थविभक्तिरित्यादि । प्रथमासमर्थविशेषणमिति । तेन विशेष्यद्वारेण प्रयाजनयोद्धार एव प्रथमनिर्दिष्टाः । प्रत्ययार्थविशेषणं संग्राम इति । तेन तद्द्वारेण संग्रामश्चरमनिर्दिष्टः ॥