4-2-17 शूल् उखात् यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र संस्कृतं भक्षाः
तत्र संस्कृतं भक्षाः (इति) शूल-उखात् यत्
शूलशब्दात् उखाशब्दात् च 'संस्कृतं भक्षाः' इत्यस्मिन् अर्थे यत्-प्रत्ययः भवति ।
The words शूल and उखा get the प्रत्यय यत् in the meaning of संस्कृतं भक्षाः.
शूलशब्दादुखाशब्दाच्च सप्तमीसमर्थात् संस्कृतं भक्षा इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। अणोऽपवादः। शूले संस्कृतं शूल्यं मांसम्। उख्यम्॥
अणोऽपवादः । शूले संस्कृतं शूल्यं मांसम् । उखा पात्रविशेषः तस्यां संस्कृतं उख्यम् ॥
<<संस्कृतं भक्षाः>> 4.2.16 इत्यस्मिन् अर्थे शूल तथा उखा - एताभ्याम् शब्दाभ्याम् 'यत्' प्रत्ययः विधीयते । शूले संस्कृतम् शूल्यम् मांसम् । उखायाम् संस्कृतमुख्यम् मांसम् । ज्ञातव्यम् - शूल तथा उखा - द्वावपि पात्रविशेषौ स्तः ।
शूलोखादिति । समाहारद्वन्द्वः, उखाउपात्रविशेषः । यस्तु स्वाङ्गवाच्युखाशब्दस्तस्येह ग्रहणं न भवति; स्वाङ्गे संस्कर्तव्यस्याभावात् । कथमुख्योऽग्निरिति । न ह्यसौ भक्षः, भवार्थे दिगादित्वाद् द्रष्टव्यः ॥