शोणात् प्राचाम्

4-1-43 शोणात् प्राचाम् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

'शोण' इति शब्दात् स्त्रीत्वं द्योतयितुम् प्राचाम् आचार्याणाम् मतेन ङीष्-प्रत्ययः भवति ।

Kashika

Up

शोणशब्दात् प्राचामाचार्याणां मतेन स्त्रियां ङीष् प्रत्ययो भवति। शोणी, शोणा, वडवा॥

Siddhanta Kaumudi

Up

शोणी । शोणा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

शोणः (अधिकरक्तवर्णः, intense red color) अस्मात् शब्दात् स्त्रीत्वं द्योतयितुम् <<अन्यतो ङीष्>> 4.1.40 इति सूत्रेण नित्यं ङीष्-प्राप्ते प्रकृतसूत्रेण सः विकल्प्यते । पूर्वदिशि विद्यमानानाम् आचार्याणां मतेन एव शोण-शब्दात् ङीष्-प्रत्ययः भवति — इति अस्य सूत्रस्य अर्थः । ङीष्-प्रत्यये कृते शोण + ङीष् → शोणी इति सिद्ध्यति । पक्षे अजन्तलक्षणः टाप्-प्रत्ययः अपि विधीयते, येन शोणा इति रूपं सिद्ध्यति ।

Balamanorama

Up

<<शोणात् प्राचाम्>> - शोणात्प्राचाम् ।रोहितो लोहितो रक्तः शोणः कोकनदच्छविः॑ इत्यमरः ।वर्णानां तणतिनितान्ताना॑मिति शोणशब्द आद्युदात्तोऽनुदात्तान्तः ।अन्यतो ङी॑षिति नित्यं ङीषि प्राप्ते विकल्पार्थमिदम् ।

Padamanjari

Up

शोणशब्दोऽयं वर्णवाची'वर्णानां तणतिनितन्तानाम्' इत्याद्यौदातः, तत्र ठन्यतो ङीष्ऽ इत्येव सिद्धे नियमार्थं वचनम् - प्राचामेव नान्येषामिति ॥