विभाषा सपूर्वस्य

4-1-34 विभाषा सपूर्वस्य प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् पत्युः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

'पति' इति शब्दः यस्य समस्तपदस्य उत्तरपदरूपेण प्रयुज्यते; तस्मात् स्त्रीत्वं द्योतयितुम् विकल्पेन नकारादेशः भवति

Kashika

Up

पत्युर्न इति वर्तते। पतिशब्दान्तस्य प्रातिपदिकस्य सपूर्वस्यानुपसर्जनस्य स्त्रियां विभाषा नकारादेशो भवति, ङीप् तु लभ्यत एव। वृद्धपत्नी, वृद्धपतिः। स्थूलपत्नी, स्थूलपतिः। अप्राप्तविभाषेयमयज्ञसंयोगत्वात्। सपूर्वस्येति किम्? पतिरियं ब्राह्मणी ग्रामस्य॥

Siddhanta Kaumudi

Up

पतिशब्दान्तस्य सपूर्वस्य प्रातिपदिकस्य नो वा स्यात् । गृहस्य पतिः गृहपतिः । गृहपत्नी । अनुपसर्जनस्येतीहोत्तरार्थमनुवृत्तमपि न पत्युर्विशेषणं किन्तु तदन्तस्य । तेन बहुव्रीहावपि । दृढपत्नी । दृढपतिः । वृषलपत्नी । वृषलपतिः । अथ वृषलस्य पत्नीति व्यस्ते कथमिति चेत् । पत्नीव पत्नीत्युपचारात् । यद्वा । आचारक्विबन्तात्कर्तरि क्विप् । अस्मिंश्च पक्षे । पत्नियौ । पत्नियः । इतीयङ्विषये विशेषः । सपूर्वस्य किम् ? गवां पतिः स्त्री ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

पति इति शब्दः यस्य समस्तपदस्य उत्तरपदरूपेण प्रयुज्यते; तस्मात् स्त्रीत्वं द्योतयितुम् विकल्पेन न् इति आदेशः विधीयते । एतादृशे आदेशे कृते नकारान्तप्रातिपदिकं सिद्ध्यति; अतः तस्मात् <<ऋन्नेभ्यो ङीप्>> 4.1.5 इत्यनेन ङीप्-प्रत्ययः विधीयते । नकारादेशस्य अभावे ङीप्-प्रत्ययः अपि न सम्भवति; अतः मूलशब्दः एव स्त्रीलिङ्गे अपि प्रयुज्यते । पतिः इति शब्दस्य भर्ता (husband) इति यथा अर्थः विद्यते; तथैव नेता इति अर्थः अपि अस्ति । उभयोः अपि अर्थयोः प्रकृतसूत्रस्य प्रयोगः अवश्यं भवति । यथा — 1. ग्रामस्य पतिः स्त्री (leader of the village) इत्यत्र ग्राम + पति इति समासे जाते स्त्रीत्वं द्योतयितुम् विकल्पेन नकारादेशे कृते; ग्रामपत्न् इति सिद्धे ततः <<ऋन्नेभ्यो ङीप्>> 4.1.5 इत्यनेन ङीप्-प्रत्ययः विधीयते; येन ग्रामपत्नी इति शब्दः सिद्ध्यति । पक्षे ग्रामपतिः इति शब्दः अपि प्रयुुज्यते । अतएव, इयं ब्राह्मणी ग्रामपत्नी, तथा च इयं ब्राह्मणी ग्रामपतिः इति उभयथा प्रयोगः साधुत्वं प्राप्नोति । 2. वृद्धस्य पत्नी इत्यत्र वृद्ध + पति इति समासे जाते स्त्रीत्वं द्योतयितुम् पति-शब्दस्य विकल्पेन नकारादेशे कृते; वृद्धपत्न् इति सिद्धे ततः <<ऋन्नेभ्यो ङीप्>> 4.1.5 इत्यनेन ङीप्-प्रत्ययः विधीयते; येन वृद्धपत्नी इति शब्दः सिद्ध्यति । पक्षे वृद्धपतिः इति शब्दः अपि प्रयुुज्यते । अतएव, इयं ब्राह्मणी वृद्धपत्नी, तथा च इयं ब्राह्मणी वृद्धपतिः इति उभयथा प्रयोगः साधुत्वं प्राप्नोति । बहुव्रीहिसमास्य विषये अपि अस्य सूत्रस्य प्रयोगः प्रकतसूत्रम् <<अनुपसर्जनात्>> 4.1.14 अस्मिन् अधिकारे वर्तते । अतः स्थूलः पतिः अस्याः सा एतादृशस्य बहुव्रीहिसमासस्य विषये अस्य सूत्रस्य प्रयोगः वस्तुतः न भवेत् । परन्तु अत्र <<अनुपसर्जनात्>> 4.1.14 इति सूत्रम् पति-शब्देन सह नैव अन्वेति, अपितु पत्यन्तशब्देन सह अन्वेति । इत्युक्ते, पत्यन्तशब्दः (यथा, स्थूलपतिः, दीनपतिः इत्यादिः) स्वयं बहुव्रीहिसमासस्य उत्तरपदरूपेण नैव विधीयते चेत् प्रकृतसूत्रस्य प्रयोगः अवश्यं कर्तुं शक्यते; तत्र पतिशब्दः स्वयं बहुव्रीहिसमासे भागं गृह्णाति चेदपि न दोषः — इति आशयः वर्तते । अतएव, स्थूलः पतिः यस्याः सा इत्यत्र प्रकृतसूत्रेण विकल्पेन नकारादेशे; तत्सन्नियोगेन च ङीप्-प्रत्यये कृते स्थूलपत्नी, तदभावपक्षे च स्थूलपति इति उभयथा प्रयोगः सिद्ध्यति । एवमेव, दृढः पतिः यस्याः सा = दृढःपतिः, दृढपत्नी इति उभयथा प्रयोगः सिद्ध्यति। । अप्राप्तविभाषा इयम् प्रकृतसूत्रेण उक्ता विभाषा अप्राप्तविभाषा अस्ति इति अत्र काशिकाकारः निर्दिशति । प्रकृतसूत्रेण उक्तः नकारादेशः <<पत्युर्नो यज्ञसंयोगे>> 4.1.33 इति पूर्वसूत्रेण नैव उच्यते यतः पूर्वसूत्रे यज्ञसंयोगः इति विशिष्टः अर्थः वर्तते । समस्तपदे विद्यमानः पतिशब्दः न हि यज्ञसंयोगविशिष्टम् अर्थम् अपेक्षते उत गृह्णाति । अतः अत्र पूर्वम् अप्राप्तः विधिः विकल्प्यते — इति स्वीकृत्य अप्राप्तविभाषा स्वीक्रियते । दलकृत्यम् सपूर्वस्य इति किमर्थम् ? यत्र पति-शब्दः समासे न विद्यते (पृथक् रूपेण विद्यते) तत्र प्रकृतसूत्रस्य प्रसक्तिः नास्ति । तत्र <<पत्युर्नो यज्ञसंयोगे>> 4.1.33 इति पूर्वसूत्रेण यज्ञसंयोगस्य विषये (= wife इत्यस्मिन् अर्थे) एव नकारादेशे कृते पत्नी इति शब्दः सिद्ध्यति । अन्येषु अर्थेषु (यथा, नेता, पालकः इत्यस्मिन् अर्थे) तु स्त्रीत्वे अपि पति इत्येव शब्दः प्रयुज्यते । बाध्यबाधकभावः प्रकृतसूत्रेण प्राप्तं वैकल्पिक-नकारादेशं बाधित्वा केषुचन स्थलेषु नित्यं नकारादेशः भवति । एतानि प्रातिपदिकानि <<नित्यं सपत्न्यादिषु>> 4.1.35 इति अग्रिमसूत्रे परिगणितानि सन्ति ।

Balamanorama

Up

<<विभाषा सपूर्वस्य>> - विभाषा सपूर्वस्य । 'पत्युर्न' इत्यनुवर्तते । प्रातिपदिकादित्यनुवृत्तं षष्टआ विपरिणतं पत्युरित्यनेन विशेष्यते, तदन्तविधिः । सपूर्वस्येत्येतत्पतिशब्दान्तप्रातिपदिकेऽन्वेति । पूर्वावयवसहितस्येत्यर्थः । तदाह — पतिशब्दान्तस्येत्यादिना । यज्ञसंयोगाऽभावेऽपि अप्राप्तविभाषेयम् । गृहपतिः गृहपत्नीति । नत्वपक्षे 'ऋन्नेभ्य' इति ङीप् । अत्र गृहपतिशब्दः पतिशब्दान्तो गृहशब्दात्मकपूर्वावयवसहितश्चेति भावः । नचग्रहणवता प्रातिपदिकेने॑ति निषेधः शङ्क्यः,शूद्रा चामहत्पूर्वा॑ इति लिङ्गेन तस्य स्त्रियामित्यधिकारेऽप्रवृत्तेरुक्तत्वात् । ननु दृढः पतिर्यस्या इति बहुव्रीहौ दृढपतिः दृढपत्नीति नत्वविकल्प इष्यते, स तु न संभवति, अनुपसर्जना॑दित्यधिकारात्, पतिशब्दस्यात्रोपसर्जनत्वात् । नच अनुपसर्जनादिति नात्र संबध्यते इति वाच्यम्, उत्तरत्रानुवृत्तये इहापि तदनुवृत्तेरावश्यकत्वादित्यत आह — अनुपसर्जनस्येत्यादि । किं तु तदन्तस्येति । सपूर्वस्येति पत्यन्तस्य श्चुतत्वेन तद्विशेषणताया एव न्याय्यत्वात् । अवान्तरवाक्यार्थबोधोत्तरमेव अनुपसर्जनत्वविशेषणप्रवृत्त्या तत्काले सपूर्वस्य श्रुतत्वेन तेनैव संबन्धे जाते सति पश्चात्पतिशब्देऽपि पुनव्र्यापारे मानाऽभावादिति भावः । तेनेति । अनुपसर्जनत्वस्य पत्यन्तविशेषणत्वेनेत्यर्थः । यज्ञसंयोगग्रहणमनुवर्त्त्य प्राप्तविभाषो कुतो न स्यादित्यत आह — वृषलपत्नीति । पाति रक्षतीति पतिः, वृषलस्य पतिः स्त्री इति विग्रहः । अपशूद्राधिकरणे शूद्राणां यज्ञाधिकारनिराकरणादिह यज्ञसंयोगाऽभावादप्राप्तमेव नत्वं विभाष्यत इति भावः । आक्षिपति — अथेति । आक्षेपारम्भद्योतकोऽथशब्दः, प्रश्नद्योतको वा ।मह्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अत॑ इत्यमरः । व्यस्ते इति । विग्रहवाक्ये इत्यर्थः । ततश्च सपूर्वत्वाऽडभावान्न प्रकृतसूत्रेण नत्वविकल्पः । यज्ञसंयोगाऽभावाच्च न पूर्वसूत्रेण, अकतो वूषलस्य पत्नीत्यनुपपन्नमित्याक्षेपः । इति चेन्नेति । इत्याक्षिपसि चेन्नैतद्युक्तमित्यर्थः । पत्नीवेति । यज्ञसंयुक्तायां द्विजभार्यायां यः पत्नीशब्दो व्युत्पादितस्तस्यैव शूद्रस्त्रियामपि अयज्ञसंयुक्तायां पाणिग्रहणादिधर्मपुरस्कारेण गौण्या वृत्त्या प्रयोगः । यथा गङ्गायामिति स्त्रीलिङ्गस्य तीरे प्रयोगः । उक्तं च भाष्ये-॒तुषजकस्य पत्नीत्युपमानात्सिद्ध॑मिति । यद्वेति । प्रौढिवादमात्रमिदम्, स्त्रियामाचारक्विबन्तप्रकृतिकक्विबन्तशब्दां न सन्तीतिअनुपसर्जना॑दित्यत्रोक्तात्वेता । सपूर्वस्येति किमिति । प्रातिपदिकविशेषणतया पतिशब्दस्य तदन्तलाभे सति पतिशब्दान्तस्य सपूर्वत्वाऽव्यभिचारात्सपूर्वस्येति किमर्थमिति प्रस्नः । गवां पतिः स्त्रीति । स्वामिनी, रक्षित्री वेत्यर्थः । असमस्तत्वाद्गवामित्यस्य न पूर्वावयवत्वमिति भावः । यद्यपियत्र सङ्घाते पूर्वो भागः पदं तत्र चेत्प्रातिपदिकसंज्ञा भवति तर्हि समासस्यैवे॑ति नियमेन गवां पतिरिति समुदायस्य पत्यन्तत्वेऽपि प्रातिपदिकत्वाऽभावादेवात्र नत्वविकल्पो न भवति तथापि गवां पतिरित्यत्र पतिशब्दस्यैव व्यपदेशिवत्त्वेन तदन्ततया नत्वविकल्पप्राप्तौ तन्निवृत्त्यर्थं सपूर्वस्येति वचनमिति भावः । वस्तुतस्तुव्यपदेशिवद्भावोऽप्रातिपदिकेने॑ति निषेधादिह केवलपतिशब्दस्य पतिशब्दान्तत्वाऽभावादेव नत्वविकल्पनिवृत्तिसिद्धेः सपूर्वस्येति स्पष्टार्थमित्याहुः ।

Padamanjari

Up

सहशब्दोऽयमस्ति तुल्ययोगे, यथा - सशिष्यो गुरुरागत इति; अस्ति च विद्यमानवचनः, यथा -'सहैव दशभिः पुत्रैर्भारं वहति गर्दभी' इति, इत्थम्भूतलक्षणे तृतीया, विद्यमानेष्वेव पुत्रेष्वित्यर्थः । पूर्वशब्दोऽप्यस्ति व्यवस्थावचनः - पूर्वं मधुरायाः पाटलिपुत्रमिति; अस्ति चावयवशब्दः - पूर्वं कायस्येति । तत्र तुल्ययोगे सहशब्दः, पूर्वशब्दश्च व्यवस्थायामिति पक्षे ग्रामस्य पतिरियमिति वाक्ये प्राप्नोति, पूर्वस्य चापि प्राप्नोति, विद्यमानवचनसहशब्दः पूर्वशब्दश्च व्यवस्थावचन इति पक्षे पूर्वस्य मा भूत्, वाक्ये तु स्यादेव । अपयववचनः पूर्वशब्दः तुल्ययोगे सहशब्द इति पक्षे वाक्येऽपि स्यात्, तत्रापि पतिशब्दस्य पूर्वोऽवयवः पकारस्तस्यापि स्यात्, तस्माद्विद्यमानवचनः सहशब्दः पूर्वशब्दश्चावयववचन इति पक्ष आश्रीयते ।'तेन सह' इत्यत्र'तुल्योगे' इति विशेषणस्य प्रायिकत्वात्समासः । एवं च स्थिते'सपूर्वस्य' इति पतिशब्दविशेषणं नोपपद्यते, कथम् ? पकारेण सपूर्वत्वमव्यभिचारादविशेषणम् । शब्दान्तरं तु पतिशब्दस्यावयवो न सम्भवति, ततश्च सामर्थ्यात् प्रातिपदिकं पतिशब्देन विशेष्यते, न तु तेन । पतिशब्द इति । पतिशब्देन तदन्तस्य ग्रहणम्, अनुपसर्जनग्रहणेनापि तदन्तं प्रातिपदिकमेव विशेष्यते, न विशेषणभूतः पतिशब्दः, अन्यथा बहुंड्व्रीहौ न स्यात् - जीवः पतिरस्याः जीवपतिर्जीवपत्नीति । षष्ठी समास एव तु स्याद् - आशापतिः, आशापत्नीति । तदेतत् सर्वमालोच्याह - पतिशब्दान्तस्य सपूर्वस्यानुपसर्जनस्येति । ग्रामस्य पतिरियमिति । असति सपूर्वग्रहणे तदन्तविधेरभावादत्रैव स्यात् । अथाप्यमहत्पूर्वेति ज्ञापकातदन्तेऽपि भवेत् केवलस्यापि स्यादेव । तस्मात्'सपूर्वस्य' इति वक्तव्यम् ॥