पदरुजविशस्पृशो घञ्

3-3-16 पदरुजविशस्पृशः घञ् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भविष्यतीति निवृत्तम्। इत उत्तरं त्रिष्वपि कालेषु प्रत्ययाः। पदादिभ्यो धातुभ्यो घञ् प्रत्ययो भवति। पद्यतेऽसौ पादः। रुजत्यसौ रोगः। विशत्यसौ वेशः॥ स्पृश उपताप इति वक्तव्यम्॥ स्पृशतीति स्पर्श उपतापः। ततोऽन्यत्र पचाद्यच् भवति। स्प॒र्शो देवदत्तः। स्वरे विशेषः॥

Siddhanta Kaumudi

Up

भविष्यतीति निवृत्तम् । पद्यतेऽसौ पादः । रुजतीति रोगः । विशतीति वेशः । स्पृशतीति स्पर्शः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

पद्यतेऽसाविति । करणस्यात्र कर्तृत्वेन विवक्षा । पदमित्येततु'खनो घ च' इत्यत्र साधयिष्यते । रोग इति ।'चजोः कु घिण्ण्यतोः' इति कुत्वम् । स्पृश उपतापे इति । उपतापःउरोगः ॥