सप्तम्यां जनेर्डः

3-2-97 सप्तम्यां जनेर्डः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सप्तम्यन्त उपपदे जनेर्धातोर्डः प्रत्ययो भवति। उपसरे जातः उपसरजः। मन्दुरजः॥

Siddhanta Kaumudi

Up

सरसिजम् । मन्दुरायां जातो मन्दुरजः । ङ्यापोः - <{SK1001}> इति ह्रस्वः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<सप्तम्यां जनेर्डः>> - सप्तम्यां जनेर्डः । सप्तम्यन्ते उपपदे जनेर्भूताऽर्थाड्ड इत्यर्थः । सरसिजमिति । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः । हलदन्तात् इति तत्पुरुषे कृति इति वा अलुक् । मन्दुरज इति । वाजिशाला तु मन्दुरेत्यमरः ।

Padamanjari

Up

सप्तम्यां जनेर्डः ॥ मन्दुरज इति । 'वाजिशाला तु मन्दुरा' । <<ङ्यापोः संज्ञाछन्दसोर्बहुलम्>> 6.3.63 इति ह्रस्वः॥