3-2-96 सहे च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते क्वनिप् युधि कृञः
सहशब्दे चोपपदे युधिकृञोर्धात्वोः क्वनिप् प्रत्ययो भवति। असत्त्ववाचित्वाद् नोपपदं कर्मणा विशेष्यते। सहयुध्वा। सहकृत्वा॥
कर्मणीति निवृत्तम् । सहयुध्वा । सहकृत्वा ॥
कर्मणीति निवृत्तम्। सह योधितवान् सहयुध्वा। सहकृत्वा॥
<<सहे च>> - सहे च । सहशब्दे उपपदे युधिकृञ्भ्यां क्वनिबित्यर्थः ।
सहे च॥ असत्ववचनत्वान्नोपपदं कर्मणा विशेष्यत इति। अतश्च'कर्मणि' इति नानुवर्तते इति भावः। न पुनरनुवर्तमानस्यैवान्नासम्बन्धः, उतरत्राप्यनुपयोगात्॥