उपेयिवाननाश्वाननूचानश्च

3-2-109 उपेयिवान् अनाश्वान् अनूचानः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते लिटः ज्वा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उपेयिवान् अनाश्वान् अनूचान इत्येते शब्दा निपात्यन्ते। उपपूर्वादिणः क्वसुः, द्विर्वचनमभ्यासदीर्घत्वम्, तत्सामर्थ्यादेकादेशप्रतिबन्धः, तत्र <<वस्वेकाजाद्घसाम्>>७.२.६७ इत्यनेकाच्त्वादिण् न प्राप्नोति, स निपात्यते, अभ्यासस्य श्रवणं धातुरूपस्य यणादेशः। उपेयिवान्। क्रादिनियमात् प्राप्तश्च <<वस्वेकाजाद्घसाम्>> ७.२.६७ इति प्रतिषिद्धः, स पुनरिट् प्रतिप्रसूयते, तेनाजादौ न भवति। उपेयुषः। उपेयुषा। न चात्रोपसर्गस्तन्त्रम्, अन्योपसर्गपूर्वान्निरुपसार्गच्च भवत्येव। समीयिवान्। ईयिवान्। वावचनानुवृत्तेश्च पूर्ववल्लुङादयोऽपि भवन्ति। उपागात्। उपैत्। उपेयाय। अश्नातेः नञ्पूर्वात् क्वसुर्निपात्यते, इडभावश्च। अनाश्वान्। नाशीत्। नाश्नात्। नाश। वचेरनुपूर्वात् कर्तरि कानज् निपात्यते। अनूचानः। अन्ववोचत्। अन्वब्रवीत्। अनूवाच॥

Siddhanta Kaumudi

Up

एते निपात्यन्ते । उपपूर्वादिणो भाषायामपि भूतमात्रे लिड्वा तस्य नित्यं क्वसुः । इट् । उपेयिवान् । उपेयुषः स्वामपि मूर्तिमग्र्याम् । उपेयुषी । उपेत्यविवक्षितम् । ईयिवान् । समीयिवान् । नञ्पूर्वादश्नातेः क्वसुरिडभावश्च । धृतजयधृतेरनाशुष इति भारविः । अनुपूर्वाद्वचेः कर्तरि कानच् । वेदस्यानुवचनं कृतवाननूचानः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<उपेयिवाननाश्वाननूचानश्च>> - उपेयिवान । इडिति । उपपूर्वादिण्धातोर्लिटः क्वसुः, नित्यत्वाद्द्वित्वम् । वलादिलक्षण इट्नेड्वशि कृती॑ति प्रतिषिद्धः, स तावत्कादिनियमात्पुनरुत्थितः । पुनश्चवस्वेकाजाद्धसा॑मितिसूत्रेण एकाच्श्च आदन्ताच्च घसेश्च परस्य वसोरिट् स्यान्नान्येभ्य॑ इत्यर्थकेन द्वित्वनन्तरमनेकाच्त्वात्प्रतिषिद्धः, सोऽयमिट् अनेन निपातनेन प्रतिसूयते इति भाष्ये स्पष्टम् । इटि कृते उत्तरखण्डस्य इकारस्य यण् । अभ्यासस्य दीर्घस्तु न निपात्यते । नन्वत्र अपूर्व इट् निपात्यतामित्यत आह — उपेयुषीति । उगित्त्वान्ङीपि वसोः संप्रसारणम् । प्रतिसूतो वलादिलक्षण इट् तु न, तन्निमित्तस्य वकारस्य संप्रसारणेन विनाशोन्मुखत्वात् । अत्र अपूर्वस्य इटो निपातने तु अत्रापि इट् स्यादिति भावः । उपेत्यविवक्षितमिति । अत्र व्याख्यानमेव शरणम् । अश्नातेरिति । 'अश भोजने' श्नाविकरणः क्र्यादिः, लिटः क्वसुः, द्वित्वम्,अत आदे॑रिति दीर्घः, सवर्णदीर्घः, द्वहल्त्वाऽभावान्न नुट् ।अश्नोतेश्चे॑त्यपि न नुट्, श्नुविकरणस्थस्यैव तत्र ग्रहणात् । नञ उपपदसमासः । 'नलोपो नञः'तस्मान्नुडची॑ति भावः । वचेः कर्तरीति । न तु भावकर्मणोरिति भावः । कानचि यजादित्वात्संप्रसारणं, पूर्वरूपं, सवर्णदीर्घः ।विभाषा गमहने॑त्यादि स्पष्टम् ।

Padamanjari

Up

उपेयिवानाश्वननूचानश्च॥